________________
[० २.३.५१.]
तृतीयः सर्गः ।
२९३
विस्यन्दिदन्ति । पर्युदासोयं न प्रसज्यप्रतिषेधस्तेन यत्र प्राणी चाप्राणी च कर्ता स्वातत्राप्राण्याश्रयो विकल्पो भवति न तु प्राण्याश्रयः प्रतिषेधः । अनुष्यन्देते झषकाम्भसी अनुस्यन्देते यादोर्णसी ॥
विकन्तु विस्कन्तृभिः । इत्यत्र " वेः " [५१ ] इत्यादिना पो वा ॥ अक्तयोरिति किम् । विस्कनः । विस्कन्नवान् ॥
·
परिष्कण्णापरिस्कन्नान्वृषान्निःष्फुलनिःष्फुरान् । निःस्फुला निःस्फुरा गोपा निन्युः क्ष्मां निष्फुरत्तृणाम् १५५ १५५. निःस्फुला: सैंहता निःस्फुराः स्फुरणान्विता गोपा गोपाला घृपान्निष्फुरत्तृणामुल्लसच्छष्पां क्ष्मां चारणार्थं निन्युः । किंभूतान् । परिष्करणं श्रमोद्भवः समन्ताच्छोषः पातो वा तेनापरिस्कन्नानपरिगतान्धलिष्टत्वेन भूरिमार्गगमनेनाप्यश्रान्तानत एव निःष्फुलनिःष्फुरान् विशेषणकर्मधारये संहतान्सतेजस्कांच ||
निष्फुलन्निस्फुरद्वातैर्निस्फुलद्विष्फुरद्धजाः ।
विस्फुरद्विष्फुलच्छायाः पङ्कया विस्फोलिता रथाः ॥१५६॥
१५६. रथाः पङ्कया श्रेण्या विस्फोलिताः संचायिताः संस्थापिता इत्यर्थः । किंभूताः । निष्फुलन्तः संहतीभवन्तो निस्फुरन्तो विचरन्तश्च ये वातास्तैः कृत्वा निस्फुंलन्तोन्योन्यं संहतीभवन्तो विस्फुरन्तश्च भ्चला ध्वजा येषु ते । अत एव विस्फुरन्त्यश्चलन्त्यो विस्फुलन्त्यः संहतीभवन्त्यश्छाया ध्वजसंवन्धिन्यो येषां ते ॥
१ ए निःस्फरा. २ सी 'र'.
१ बी 'णी यत्र चा. २ डी 'स्कन्नवा. ३ ए सी डी सहिता° ४ए निष्पुर ५ ए सी डी 'रिकना° ६ बी 'निष्पुरा ७ ए सी डी 'स्फुरन्तो'. ८ डी व चल'.