________________
है० २.३.४९.] तृतीयः सर्गः।
२९१ व्यपहिष्ट तटीपातं पर पर्यषहिष्ट च । न्यपहिष्ट पयःशोषं व्यसहिष्ट न किं नदी ॥ १४९ ॥ १४९. नदी जम्बूमाली तटीपातं सैन्यसंमर्दजन्यं तीरभ्रंशं व्यषहिष्ट । तथा वखादिधावनविगाहनादेः पवं पर्यषहिष्ट । तथा पानादेः पयःशोषं न्यषहिष्ट । अतश्च तटीपातादिसहनाकि न व्यसहिष्ट !
नन्यसाह्यातपः कैश्चित्पर्यसाहि तृषा न च ।
पर्यप्कारि तरुच्छाया पर्यस्कारि सरिञ्च यत् ।। १५०॥ १५०. स्पष्टः । किं तु पर्यस्कारि समाश्रयणेनालंकृता ॥ पर्यटौत् पर्यस्तीत् । न्यष्टोत् न्यस्तोत् । व्यष्टोत् न्यस्त्रौत् । पर्यष्वक पर्यख । न्यप्वक न्यस्वद । व्यावह व्यस्वस । पर्यपीन्यत् पर्यसीन्यत् । म्यपीम्यत् न्यसीव्यत् । न्यपीव्यत् व्यसीव्यत् । पर्यपहिष्ट पर्यसाहि । न्यपहिष्ट म्यसाहि । व्यपहिष्ट व्यसहिष्ट । पर्यष्कारि पर्यस्कारि। इत्यत्र "स्तुस्वाभाटि नवा" [१९] इति वा पः॥
विष्यन्दिमदनिःष्यन्दैः कराभिष्यन्दिशीकरैः ।
सल्लक्या रसनिष्यन्दः स्म परिष्यन्धते गजैः ॥ १५१ ॥ १५१. गजैः सल्लक्या गजप्रियतरुविशेषाद्रसनिष्यन्दो रसप्रवाहः परिष्यन्द्यते स्म चर्वणेन साव्यते स्म । कीदृशैः । विष्यन्दी प्रसृमरो मदनिःष्यन्दो मदप्रवाहो येषां तैस्तथा करेभ्यः शुण्डाभ्योमिष्यन्दिनः स्रवणशीला: शीकरा वमर्थवो येषां तैः ।। १बी न्यस्याह्या . २ डी रिस १बी र्दज ती . २ सी । व्यध्व. ३सीप. ४ ए सी डी पाणां रस. ५ डीन्दो मद'. ६ ए सीन श्राव्य'. ७ वी नि:स्यन्दो ८ ए सी डी 'नः श्रव. ९एसी थतो ये. डी यती ये.