________________
२१०
ब्याप्रयमहाकाव्ये
[मूलरायः]
अनु क्षेत्रं ग्रामान दिशः क्षेत्राणि च लक्ष्यीकृत्य सस्यसंपदः प्रति नृपं राज्ञां भागे प्रामपतिं परि प्रामठ कुराणां भागेनु कर्षकं हालिकानां भागे च बभुः प्राचुर्येण शुशुभिरे । शरदि हि कर्षकाणां धान्यानि निष्पद्यन्ते । तेभ्यो ग्रामभूस्वामित्वादामपतयो भागं गृहन्ति । तेभ्यास देशपतित्वान्नृपा भागं गृह्णन्ति ।।
प्रतीभमिभमन्वश्वपश्वं गां गां च पर्यसौ ।
साधुः प्रति मदमनु पालनं बलितां परि ॥३॥ ३. असौ शरदिभमिभं प्रत्यभिव्याप्य मदं प्रति मदग्रहणविषये साधुः साधुत्वप्रकारमापन्नाभूत् । वथाश्वमश्वमन्वाभिव्याप्य पालनमनु रक्तस्त्रावादिचिकित्साकरणेन रक्कोलनोद्भवरोगाद्रक्षणविषये साधुरभून । तथा गां गां च परि वृषं वृषमाभिव्याप्य बलितां परि बलिष्ठताविषये साधुरभून । शरदि हीमा माद्यन्ति । अश्वाश्च रक्तस्रावं कृत्वा घृतदानादिना पाल्यन्तं । वृषभाश्च बलिष्ठाः स्युः ॥
भागिन । प्रति नृपर्म । प्रामपति परि । मनु कर्षकम् ॥ लक्षणे। प्रति प्रामम् । दिशं परि । अनु क्षेत्रम् ॥ धीप्स्ये । इभमिभं प्रति । गां गां परि । अश्वमश्वमनु ॥ इत्थभूते । मदं प्रति । बलितां परि । भनु पालनम् । इला "भागिनि " [३५] इत्यादिना द्वितीया ॥
सरोन्ववसितान्यब्जान्यन्वेयुर्यत्सितच्छदाः।
तेनर्तवोनु शरदमुप गङ्गामिवापगाः ॥ ४ ॥ ४. सरोनु । सर इत्यत्र जातावेकवचनम् । अनुः सहार्थे । ततः १ एच्छित. . १ ए लक्षीकृ. २ ए सी डी गे ब. ३५ वी एफ "क्तश्रावा. ४वी पभम : ५एबी तश्राव. ६बीम् । प. ७सीएफ नीप्से ।६. ८वी इति जा.