________________
१५० व्याश्रयमहाकाव्ये
[मूलराबः] ममुमुयङ् । इत्यत्र "मादुवर्णोनु" [१७] इति-उवर्णः ॥ अन्विति किमर्मम् । ममुयोरित्यत्र एत्वादिषु कार्येषु कृतेपूवर्णो यथा स्यादित्येवमर्थम् ॥
अमुना । इत्यत्र "प्रागिनात्" [१८] इति उवर्णः ॥ ममी । इत्यत्र "बहुवेरीः" [१९] इति ईकारः ॥ निया । लुवा । अधीयन्तः । स्तुवन्तः । इत्यत्र "धातोरिवर्ण" [५०] इत्यादिनेयुवौ ॥ ईयुः । इत्यत्र "दणः" [५] इति-इय् ॥
यवक्रिय. । कटगुवः । शिधियुः । इत्यत्र "संयोगात्" [५२] इति वोरपवादावियुवौ ॥ धातुना संयोगस्य विशेषणादिह न भवति । उन्यः । असकृष्टः ॥ पश्यन्ति सिद्धस्त्रिय उ वोर्कमाराभुवन्तं किल पादपातैः। आशास्त्रियः स्त्रीरिव पद्मिनीश्च धुश्रीस्त्रियं स्त्रीमिव खश्रियं च ३५ ___३५. अणिमाद्यष्टविधैश्वर्यवन्त: सिद्धास्तेषां स्त्रिय उर्ध्वा ध्रुवो यासां ता उद्धवः सत्योर्क पश्यन्ति । यतः पादपातैः किरणनिक्षेपैरथ च पादेषु पातैश्चरणप्रणामैः कृत्वारानुवन्तं किल प्रसादयन्तमिव । का: । आशास्त्रियों दिगङ्गनास्तथा पद्मिनीः स्त्रीरिव । तथा रविकिरणपञ्चशती स्वर्गमप्युद्योतयतीतिप्रसिद्धेर्युश्रीस्त्रियं स्वर्गलक्ष्मीमेवाङ्गना खश्रियं चाकाशलक्ष्मी च स्त्रीमिव । योपि कान्त: प्रेमानुविद्धः स्वकान्ताः पादपातैराराधयति तमन्यस्त्रियोहो अस्य स्वकान्तासु प्रेमानुबन्धो यद्यस्माकमपीश: पतिः स्यादित्यभिलाषणोद्धवः पश्यन्ति ।। उहवः । आराप्नुवन्तम् । इत्यत्र "धूभोः" [५३] इति-उम् ॥
१ एक शाः लि.
१ ए वन्त्यः ।. २ एफ शाः ति'. ३ सी डी लक्ष्मी च. ४ एफू प्रेम्गानु