________________
व्याश्रयमहाकाव्ये
[मूलरामः] त्वमीशो भविनामईन् भवान् विष्णुर्भवानजः । स्तुवन्नाह सुभण्णेवं श्रद्धया युतिहार्हतः ॥ ७९ ॥ ७९ इह पुरेईन देवतास्यार्हतः श्रावकः । श्रद्धया भावनया युङ् युक्त: पुलकाश्चिताङ्गो नेत्रजलाप्लावितकपोलश्चेत्यर्थः । सुष्ठ भणति विचि सुभण् मधुरगीश्च सन् स्तुवंस्तीर्थकरं नुवन् सन्नेवमाह भक्तिविशेषणार्हन्तं प्रतीदं घूते । यथा हे अर्हन जिनेश्वर भविनां भव्यानां त्वमीशस्त्वमेव महेश्वरी भवान् विष्णुस्त्वमेव नारायणो भवानजस्त्वमेव स्रष्टा । तवैव मुक्तिप्राप्तिहेतुत्वात्वत्तोन्यद्धरहरिब्रह्माख्यं देवतान्तरं भव्यलोकानामाराध्यं नास्तीत्यर्थ इति ॥
युनिह । सुभण्णेवम् । स्तुवन्नाह । इत्यत्र "हस्वात्" [२७] इस्पादिना द्वित्वम् ।। हस्वादिति किम् । भवानजः ॥ डणन इति किम् । त्वमीशः ॥ स्वर इत्येव । अर्हन् भवान् ॥ पदान्त इत्येव । भविनाम् ॥
आच्छायां दीपिकाच्छाया खट्वाछायेव माच्छिदत् । माच्छायाः कुवेते रत्नदीपानत्राममाछवीन् ॥ ८०॥ ८०. अत्र पुरे मया लक्ष्म्या छाया शोभा येषां ते माच्छाया ईश्वरा रत्नदीपान् रत्नान्येव दीपान मणिमयान् प्रदीपान कुर्वते । किंभूतान् । प्रमिमीते विचि प्रमा नास्ति प्रमा परिच्छेत्ता यस्याः सा तथाभूता छविः कान्तिर्येषां तान् । सर्वतः प्रसरत्कान्तीनित्यर्थः ।. रत्नदीपकरणे हेतुमाह । दीपिकाच्छाया दीपपृष्ठेन्धकार आच्छायामीषदपि लक्ष्मी माच्छिदन्मास्म विनाशयत् । यथा खट्टाछाया आच्छायां छिनत्ति । दीपखट्वयोश्छाये हि स्पृश्यमाने अश्रिये स्याताम् । यत्पुराणम् ।।
१ सीतः पा. २ एफ काचिता. ३ एफ जलप्ला. ४ एफ प्रत्येव । ५ एफ दरिदरम. ६ ए °किं किमत्र स्व. ७ डी 'रच्छाया आ. ८ एफू न्मा वि.