________________
३२०
परिशिरापर्वणि त्रयोदशः सर्गः ।
एवमादि समादिश्य स्खशिव्यं श्रुतपारगम् । वज्रसेनमुनि स्माह विहर्तमय मो ऽन्यतः ॥१५ ४॥ युग्मम् ॥ ग्रामाकरपुरारण्यवतौं वसमतौं ततः । विहत वज्रसेनो ऽपि प्रावृतन्मुनिपुङ्गवः ॥१५५॥ श्रीवत्रवामिनः पार्श्ववर्तिनो वतिनः पुनः । लभन्ते न क्वचिनियां भ्राम्यन्तो ऽपि रहे ग्रहे ॥१५६॥ विना भिक्षा क्षधाक्षामकुक्षयो ऽनन्यवृत्तयः । ते ऽन्वहं गुरुभिर्दत्तं विद्यापिण्डसमुन्नत ॥१५॥ दादशाब्दानि भोकव्यः पिण्डो ऽय वस्ततो यदि । संयमस्थ न बाधास्ति तमादृत्य ददाम्यहम् ॥१५८॥ नो वा तदा सहानेन तनोस्त्यागं विदभहे। इत्युका गुरुभिर्धर्भमतयो यतयो ऽभ्यधुः ॥१५६॥ युग्मम् ॥ धिक् पोषणमिमं पिण्डं पिण्डं पोयमिमं च धिक् । प्रभो प्रसौद येनैतत्त्यजामो द्वितयं वयम् ॥ १६ ॥ अथादाय मुनीन्सर्वा श्रीक्जो भुवनार्यमा । गिरि प्रत्यचलल्लोकान्तरं तुंद्योतथि जवौ ॥ १६१ ॥ तत्रैकः क्षुल्लको नास्थाबार्यमाणो यदा तदा । क्वापि प्रतार्य तं ग्रामे समारोहगुरुर्गिरिम् ॥१६२॥ मा भूहुरूणामप्रौतिर्मनसौति विचिन्तयन् । त्यता भतं च देह च क्षुल्लको ऽस्थाहिरेरधः ॥ १६३॥ मध्याहतपनात्युष्णरोचिस्ता शिलातले । पिण्डवनवनौतस्य विलौगस्तत्क्षणादपि ॥१६४॥ युग्मम् ॥