________________
परिशिरापर्वणि त्रयोदशः सर्गः। फल्गरक्षितमन्येधुर्मूर्तिमहन्धुवाचिकम् । दर्शयनुत्सको गन्तुं श्रौवज्र स पुनर्जगौ ॥ १३२॥ अयमुत्साह्यमानो ऽपि इन्त गन्तुमनाः कथम् । एवं विचिन्तयन्वज्रखाम्यभूदुपयोगवान् ॥१३३॥ मो ऽथामस्तेत्यतो यातो नायमायास्यति ध्रुवम् । स्तोकं ममायुर्मय्येव पूर्वं च दशमं स्थितम् ॥१३४॥ अनुज्ञातस्ततस्तेन गमनायार्यरक्षितः । मफल्गुरक्षितः शौचं पुर दशपुर ययौ ॥१३५॥ तत्रायातं च तं ज्ञात्वा सपौरः पृथिवीपतिः । मरुद्रमोमासोमश्च भक्त्या वन्दितमाययौ ॥१२६॥ प्रमोदाश्रुपयःपूर्णलोचनास्ते च तं मुनिम् । भूतें धर्ममिवानन्य यथास्थानमुपाविशन् ॥१३७॥ विदित्वा धर्मशुश्रूषां तेषां कारुण्यवारिधिः । देशनां विदधे सो ऽपि मेधगम्भौरया गिरा ॥१३८ ॥ श्रोत्रपत्रपुटीपौतदेशनात्यच्छवारिभिः । तत्कालं क्षालयन्ति स्म विस्मितास्ते मनोमलम् ॥१३८ ॥ अथार्यरक्षितस्यान्ते नृपः सम्यक्त्वमग्रहीत् । ततः सपौरस्त नत्वा ययौ निजनिकेतनम् ॥१४ ० ॥ समोमा रुद्रमोमापि बन्धुभिर्बहुभिः समम् । संमारचारकावासविरका व्रतमाददे ॥१४ १॥
दूतश्च विहरवज्रखामौ क्षोणितले क्रमात् । संयमक्रमचारौ च प्रययौ दक्षिणपथम् ॥१४॥