________________
३०४
परिशियपर्वणि द्वादशः सर्गः।
.
जगाद वज्रो भगवानादिष्टमिदमेव ते । पाणिपद्मस्थितं पद्ममिदं पद्मे ममार्यताम् ॥ ३७३॥ खामिन्किमेतदादिष्टमिन्द्रोपवनजान्यपि । पुष्पाण्यानेतुमौशामौत्युत्का सा पद्ममार्पयत् ।।३७४॥ वन्दितश्च श्रिया वज्रः पुनरुत्पत्य सत्वरम् । पथा यथागतेनैव हुताशनवनं ययौ ॥३०॥ विद्याणत्या च भगवान्विमानं व्यकरोदथ । पालकस्थानुजन्मेव बन्धुर विविधर्द्धिभिः ॥३७६ ॥ अस्थापयच तन्मध्ये श्रीदेव्यर्पितमम्बुजम् ।। विशतिं पुष्पलक्षाणि तस्य पार्श्वषु न न्यधात् ॥३०७॥ स्मरति स्म तदा वज्रो भगवाञ्जम्भकामरान् । ते वज्रं वज्रिणमिव तत्क्षणाञ्चोपतस्थिरे ॥३७८॥ छत्रस्येवाम्बुजस्थाधो धनगिर्यात्मभूर्मुनिः । निषद्य व्योमयानाय विमानवरमादिशत् ॥ ३७८ ॥ तस्मिन्विमाने चलिते जम्मका अपि नाकिनः । चेलर्विमानारूढास्ते गौतवाद्यादिपूर्वकम् ॥ ३८० ॥ वैमानिकैर्विमानस्यैर्विमानस्थः समावृतः । पुरौं नाम पुरौं प्राप वज्रस्तां बौद्धदूषिताम् ॥ ३८१॥ तत्पुरोवासिनो बौद्धा विमानानि निरीक्ष्य खे । श्राभाषन्तवमुत्पश्या उत्युलषोद्यता दुव ॥३८२॥ सप्रभावमहो बौद्धदर्शनं प्रेक्ष्य नाकिनः । बुद्धपूजार्थमायान्ति श्रीबुद्धाय नमो नमः ॥ ३८३॥