________________
२७२
परिशियपर्वणि हादशः सर्गः।
सुनन्दायाः प्रौतिपात्राण्यङ्गनाः सूतिकाग्टहे । प्रतिजागरणाचातास्तं बाल मिदमूचिरे ॥२२॥ यदि जात न ते तातः प्रावजिव्यत्तदोत्सुकः । जातकोत्सवः श्रेयानमविष्यत्ततः खलु ॥२३॥ स्त्रीजने सत्यपि ग्रहं भाति न स्वामिनं विना । बहौभिरपि ताराभिर्यथा चन्द्रं विना नभः ॥२४॥ स तु बालो ऽपि सज्ञावाज्ञानावरणलाघवात् । तामामाकर्णयामास तं संलापं समाहितः ॥२५॥ अचिन्तयञ्च मत्तातः परिव्रज्यामुपाददे । एवं च चिन्तयन्नेव जातिस्मरणमाप सः ॥२६॥ संजातजातिस्मरणः संसारासारतां विदन् । दयेष चौरकण्ठो ऽपि पिच्छ धन्यध्वनौनताम् ॥२०॥ कथमुद्विज्य मां माता त्यक्ष्यतीति विचिन्य सः । मातुरङ्कस्थितो ऽप्युच्चै रोदिति स्म दिवानिशम् ॥२८॥ न रागमधुरैर्गानेन क्रौडनकदर्शनैः । न वस्त्रदोलाप्रेङ्खाभिन चाटुवचनैरपि ॥२८॥ नोत्मङ्गनृत्यलोलाभिर्न मुखातोद्यवादनैः । न शिरश्चम्बनेनापि विशश्राम स रोदनात् ॥३०॥ युग्मम् ॥ एवं च रुदतस्तस्य शिशोर्मामाः षडत्यगुः । पाससाद सुनन्दापि निर्वेदं तेन सूनुना ॥३१॥ अन्यदा तु सिहगिरिस्तत्रागात्मन्निवेशने । विनेयैर्धनगिर्यार्यशमितादिभिरावृतः ॥३२॥