________________
२६०
परिशिठपर्वणि एकादशः सर्गः।
वन्दित्वा श्रीमदहन्तमथ तैः परमाईतैः । रथ्यैरिवायतोभूय स्वयमाचकृषे रथः ॥७॥ नागरौभिरुपक्रान्नमहल्लौसकरासकः । चतुर्विधातोद्यवादसुन्दरप्रेक्षणीयकः ॥७८॥ परितः श्राविकालोकगीयमानोरुमङ्गलः । प्रतीच्छन्विविधां पूजां प्रत्य प्रतिमन्दिरम् ॥७६ ॥ बहलैः कुश्माम्भोभिरभिषिकाग्रभूतलः । सम्पतेः मदनद्वारमासमाद शनै रथः ॥८० ॥ त्रिभिर्विशेषकम् ॥ राजापि सम्पतिरथ रथपूजार्थमुद्यतः । श्रागात्यनमफलवत्सर्वाङ्गोनिनकण्टकः ॥१॥ रथाधिरूढां प्रतिमा पूजयाष्टप्रकारया । अपूजयन्नवानन्दमरोहंसो ऽवनीपतिः ॥८॥ तदानौमेव मामन्तानाइय निखिलानपि । सम्यकं ग्राहयित्वैवमादिदेश विशापतिः ॥८३॥ मन्यध्वमयि मामन्ताः सम्यग्मां खामिन यदि । तद्भवन्तु सुविहितश्रमणानामुपासकाः ॥४॥ द्रव्यैरपि न मे किंचिद्युमहत्तैः प्रयोजनम् । एवं कृते हि मामन्नाः प्रिय भवति मे कृतम् ॥८५॥ एवमाजाप्य मामन्ता विसृष्टाः स्वखनौति । गत्वा चक्रुः स्वामिभक्त्या श्रमणानामुपासनाम् ॥८६॥ प्रावर्तयन्रथयाचा तवानुगमन तथा । रथाग्रे पुष्पवृष्टि च चैत्यपूजां च ते व्यधुः ॥८॥