________________
२५०
परिशिष्टयर्वणि दशमः सर्गः।
तचाविशच भगवान्कल्पशाखीव जङ्गमः । ददृशे च धनेश्वर्या धनदेवग्टहस्यया ॥११॥ समुत्थायासनात्सद्यो धनेश्वर्यनवद्यधीः । स्थूलभद्रमवन्दिष्ट भूतलन्यस्तमस्तका ॥१२॥ ततः मा स्थूलभद्रायादापयन्महदासनम् । सतां भक्त्यनुसारेण गुरौ हि प्रतिपत्तयः ॥१३॥ भगवानप्यलंचके प्रतिलिख्य तदामनम् । तां धर्मक्षणनिर्वाहोदन्तेनान्वग्रहौदथ ॥ १४ ॥ पतिप्रवासविधुरां पप्रच्छ च धनेश्वरीम् । भावसारे पतिः किं ते धनदेवो न दृश्यते ॥१५॥ धनेश्वर्यप्यदो ऽबादौत्यतिर्हि भगवन्मम । व्ययते स्म धनं सर्वं यमुहे ऽभूहिः स्थितम् ॥१६॥ सो ऽर्थहीनः पुरे ऽबाभूलघुरेव तणादपि । अर्थाः सर्वच पूज्यन्ते न गरौराणि देहिनाम् ॥१७॥ न चापत्पूर्वपुरुषनिधौनन्वेषयन्नपि । निर्भाग्यस्थान्तिकस्यापि श्रीहि दौपान्तरस्थिता ॥१८॥ स वणिगव्यवहारेण द्रविणोपार्जनेच्छया । गतो देशान्तरं को हि विदेशो व्यवसायिनाम् ॥१८॥ ज्ञाला श्रुतवलेनाथ निधिस्थानं तदोकसि । श्राख्यातं चिन्तयामास तस्यै सूरिः कृपानिधिः ॥२०॥ धर्मोपदेशव्याजेन भगवान्हस्तसज्ञया । अधःस्थितनिधिं स्तम्मं मुनिस्तस्यै प्रदर्शयन् ॥२१॥