________________
२४२
परिशिटपर्वणि नवमः सर्गः। स उवाच तवैवास्मि कुणालो नाम नन्दनः । बदाज्ञालेखमौचित्वा यो ऽन्धः स्वयमजायत ॥४४॥ ततो जवनिका वेगादपमार्य नरेश्वरः । दृष्ट्वोपलक्ष्य खं सूनुमुदश्रुः परिषबजे ॥४५॥ ऊचे च राजा तुष्टो ऽस्मि वत्स तभ्य ददामि किम् । व्यजिज्ञपत्कुमारो ऽपि याचे ऽहं देव काकिणीम् ॥४६. किमेतद्याचितमिति राज्ञि ब्रुवति मन्त्रिणः । अचिरे राजपुत्राणां काकिणौ राज्यमुच्यते ॥४७॥ राजा पोवाच हे वत्स कि राज्येन करिष्यसि । तत्ते स्यादन्यसादेव देवापहतचक्षुषः ॥४८॥ व्यजिज्ञपत्कुमारो ऽपि तात जातो ऽस्ति मे सुतः । पौत्रेण वर्धसे दिल्या राज्ये ऽस्मिन्मो ऽभिषिच्यताम् ॥४६ पप्रच्छाशोकराजो ऽपि कदोत्येदे सुतस्तव । सम्पत्येवेत्यकथयत्कुणालो ऽपि कृताञ्जलिः ॥५०॥ तदैव'तमशोकौः समानाययदर्भकम् । नामापि सम्प्रतिरिति तस्याकृत कृतोत्सवः ॥५१॥ अमोघवागशोकौस्तं दशाहादनन्तरम् । सम्मति स्तन्यपमपि निजे राज्ये न्यवौविशत् ॥५२॥ वृद्धिमासादयामास वयमा विक्रमेण च । श्रिया च सम्प्रतिरचचाजन्म परमाईतः ॥५३॥ क्रमेण साधयामास भरतार्धं सदक्षिणम् । प्रचण्डशासनश्चात्याकशासनसन्निभः ॥५४॥