________________
परिशिष्यर्वणि अष्ठमः सर्गः ।
राजानं कुपितं ज्ञात्वा चाणक्यो ऽचिन्तयत्वयम् । सुबन्धुना तन्नेन राजा. मय्यन्यथाकृतः ॥ ४५१॥ अयं हि मागमात्यत्वे कारितो ऽभन्मयैव हि । तन्ने प्रत्युपकाराय युक्तमस्य कुलोचितम् ॥४५२॥ नदत्यासन्नम्मृत्योर्मे पर्याप्तं राज्यचिन्तया । कृते प्रतिचिकौबुद्धिं प्रयोच्ये ऽहं तथापि हि ५४ ५३॥ मद्धौपिशाचिकायस्तः मो ऽपि मा राज्यमश्रुताम् । इति तस्यापकारेण करिष्ये समयोचितम् ॥४५४ ॥ मंयोज्य योगमन्त्राद्यैर्वरगन्धासमुद्के । लिखिताक्षरभूर्जन सह सो ऽक्षिपदुग्धौः ॥४५५॥ समुद जतनालिप्य पेटायां स सुधौर्यधात् । तालयामास तां पेटा तालकानां शतेन च ॥४५६॥ गेहान्तर्यस्य तां गेहसर्वखमिव पेटिकाम् । दीनानाथादिपावेभ्यश्चाणक्यो न्यददाद्धनम् ॥४५॥ ततश्च नगरामनकरौषस्थलमूर्धनि । निषद्यानशनं चक्रे चाणक्यो निर्जरोद्यतः ॥४५८॥ यथाविपन्नजननौवृत्तान्तं धात्रिकामुखात् विज्ञाय बिन्दुसारो ऽनुशयानस्तत्र चाययौ ॥ ४५८ ॥ उवाच आमयित्वा च चाणक्यं चन्द्रगुप्तसूः । पुनर्वतय मे राज्यं तवादेशकदस्यहम् ॥४६॥ मौर्याचार्यो ऽभ्यधाद्राजकृत प्रार्थनयानया । शरीरे ऽपि निरौहो ऽस्मि साम्प्रतं किं त्वया मम ॥ ४६१॥