________________
२३४
परिशिष्पर्वणि अहमः सर्गः।
पदपतिमिमां तेषां सुव्यक्त प्रतिविम्विताम् । गवाक्षविवराधस्ताहया प्रत्ययमुबह ॥ ४२६॥ सजातप्रत्यये राज्ञि द्वितीये ऽहनि तगुरुः । धर्ममाख्यातुमाहास्त नच जैनमुनीनपि ॥४३ ० ॥ निषेदुस्ते प्रथमतो ऽप्यासनेष्वेव माधवः । खाध्यायावश्यकेनाथ नृपागममपालयन् ॥४३१॥ ततश्च धर्ममाख्याय साधवो वसतिं ययुः । ईर्यासमितिलौनत्वात्पश्यन्तो भुवमेव ते ॥४३२॥ गवाचविवराधस्तालोष्टचर्ण समीक्ष्य तम् । चाणक्यश्चन्द्रगुप्ताय तद्यथास्थमदर्शयत् ॥४३३॥ ऊचे च नैते मुनयः पाण्डिवदिहाययुः । तत्यादप्रतिबिम्बानि न दृश्यन्ते कुतो ऽन्यथा ॥४३४॥ उत्पन्नप्रत्ययः साधून गुरून्मेने ऽथ पार्थिवः । पाषण्डिषु विरको भूद्विषयेष्विव योगवित् ॥४३५॥
एवं चानेकशः मविधानः प्रथितधौगुणः । चाणाक्यश्चिन्तयामास मौर्यौवल्लिमण्डपः ॥४३६॥ माधयामि विषाहारं चन्द्रगुप्तं शनैः शनैः । रसायनं यथास्य म्यागरदः प्रभवेन्न च ॥४३ ०॥ मौर्यो ऽथ मौर्यगुरुणा गुमणेव महाधिया । प्रभोज्यत विषाहारं दिनं प्रत्याधिकाधिकम् ॥४ ३८॥ अन्येधुश्चन्द्रगुप्तेन सह भोक्तं प्रचक्रमे । रागोत्कटतया राजौ दुर्धरा नाम गुर्विण ॥४३८॥