________________
२०२
परिशिवपर्वणि अष्टम सर्गः ।
ततश्च स महाभागो गत्वा मदमि पार्थिवं । आलोचितमिद धर्मलाभः स्तादित्यवोचत ॥७७॥ ततः स राजमदनाङ्गुहाया दुव केसरौ। निःमसार महासारः संसारकरिरोषणः ॥७८॥ किमेष कपटं कृत्वा यायौ वेश्याग्रह पुनः । इत्यप्रत्ययत मापो गवाक्षेण निरक्षत ॥७९॥ प्रदेशे शवदुर्गन्धे ऽप्यविकूणितनासिकम् । यान्तं दृष्ट्वा स्थूलभद्र नरेन्द्रो ऽधूनयच्छिरः ॥८॥ भगवान्वीतरागो ऽसावस्मिन्धिग्मे कुचिन्तितम् । इत्यात्मान निनिन्दोच्चैर्नन्द स्तमभिनन्दयन् ॥८१॥ स्थलभद्रो ऽपि गत्वा श्रीमन्भूतविजयान्तिके । दीक्षां सामायिकोच्चारपूर्विका प्रत्यपद्यत ॥८॥ ग्टहीत्वा श्रीथक दोष्णि ततो नन्दः सगौरवम् । मुद्राधिकारे निःशेषव्यापारसहिते न्यधात् ॥८३॥ चकार श्रीयको राज्यचिन्तामवहितः सदा । साक्षादिव शकटाल' प्रशष्टनयपाटवात् ॥८४॥ स नित्यमपि कोशाया विनीतः सदने ययौ । स्नेहासातस्तप्रियापि कुलौनर्वडमन्यते ॥८५॥ स्थूलभद्रवियोगार्ता श्रौयक प्रेक्ष्य सारुदन् । दष्टे दृष्टे हि दुःखार्ता न दुःख धर्तमौ शते ॥८६॥ ततस्तां औयको ऽवोचदार्य किं कुर्महे वयम् । असौ वररुचिः पापो ऽघातयजनक हि नः ॥८॥