________________
कल्पकामात्यः
जानन्ति किंचिदप्येते न वेति प्रत्यनौकधीः । जगामाचार्यवर्यस्य समीपे कपिलो निशि ॥११॥ हृदयान्तःसमुल्लासिश्रुताब्धिलहरौनिभैः । वचोभिर्विदधे सूरिस्तस्थाने धर्मदेशनाम् ॥१२॥ तस्थामेव हि तामस्थां धर्मदेशनया तया .! श्रावकः कपिलो जज्ञे ऽथाचार्या ययुरन्यतः ॥१३॥
अन्यदा केचिदाचार्याः प्राववाले तदोकसि । तस्थुस्तेनाईतौभूतेनानुज्ञाता द्विजन्मना ॥१४॥ अन्येधुः सूनुरुत्पेदे कपिलस्य द्विजन्मनः । स पुनर्जातमात्रो ऽपि रेवतीभिरग्रहत ॥१५॥ मुनिभिः कल्पमानानां भाजनानामधश्च मः । बालो द्विजन्मना तेन दधे श्रद्धानशालिना ॥१६॥ तेषां महाप्रभावाणामृषीणां पात्रवारिणा । अभिषिकं शिशु क्रूरव्यन्तों मुमुचुटुंतम् ॥१७॥ मुनिभाजनकन्याम्भोभिषिकन्यारुजः शिशोः । चक्रे कल्पक इत्याख्यां कपिलः श्रावकस्त ॥१८॥ तदादि व्यन्तरौदोषस्तङ्गहे न कदाप्यभूत् । ततश्च पुत्रसन्तानसमृद्धः कपिलो ऽभवत् ॥१६॥ कल्पकः क्रमयोगेण विपन्नपिटकः पुरे । समस्तविधास्थानज्ञ एको ऽभूत्कौर्तिभाजनम् ॥२०॥ म गर्भश्रावकत्वेन सदा सन्तोषधारकः । न परिग्रहभूयस्ले मनोरथमपि व्यधात् ॥२१॥