________________
परिशियपर्वणि षष्ठः सर्गः।
सकल्पवृक्षाचारामा वापयः स्वर्णपङ्काजाः । देव्यश्चित्तानुवर्तिन्यो रूपवत्यः कलाविदः ॥१३॥ यथादिष्टविधातारस्त्रिदशाश्वाभियोगिकाः । इच्छया दिव्यसङ्गौतनाटकाभिनयोत्सवाः ॥१३२॥ शाश्वतेषु विमानेषु रम्यरत्नग्टहाणि च । सर्वशक्तिमृतो नित्यं परिवारे च नाकिनः ॥ १३३॥
॥ चतुर्भिः कलापकम् । आनुत्तरविमानं यद्ययन्तरपुरावधि । सुखं किमपि देवानां तत्कियत्कथ्यते गिरा ॥१३४॥ तच्छुत्ला पुष्यचूलोचे यूथ वित्थ यदौदृशम् । स्वर्गा युग्माभिरपि किं खप्ने ददृशिरे ऽखिलाः ॥ १३५॥ मुनिर्जगाद कल्याणि निजागमसुधापिबाः । खःसुखानि वय विद्मो विद्मो ज्ञेयान्तराण्यपि ॥ १३६॥ प्रमाणं वचनं जैनमिति निश्चित्य राज्यथ । ऋर्षि पप्रच्छ भगवन्स्वर्गाप्तिः केन कर्मणा ॥ १३ ॥ सूरिरूचे ऽईति देवे गुरौ साधौ च निश्चयः । यस्य ससारिणस्तस्य स्वर्गाप्तिर्न दवौयसौ ॥ १३८॥ पुनश्चारित्रधर्म च मुनिना कथिते सति । मा राजी लघुकर्मवानवोद्विग्नैवमभ्यधात् ॥ १३६॥ भगवन्पतिमापृच्छय पादमूले तवैव हि । उपादास्ये परिव्रज्यां मानुष्यकतरोः फलम् ॥१४॥ इत्युक्त्वा तमृर्षि नत्वा पुष्पचूला विसृज्य च । आपप्रच्छे महौनाथं महीनाथो ऽप्यदो ऽवदत् ॥१४१॥