________________
अनिकापुत्रकथा।
उदाय्यपि समाइय नैमित्तिकबरानथ । स्थान पुरनिवेशा, गवेषयितमादिशत् ॥३३॥ ते ऽपि सर्वत्र पश्यन्तः प्रदेशानुत्तरोत्तरान् । थयुगङ्गातटे रम्ये दृशां विश्रामधामनि ॥३४॥ ते तत्र ददृश्यः पुष्पपाटलं पाटलिद्रुमम् । पत्रलं बहुलच्छायमातपत्रमिवावनेः ॥३५॥ अहो उद्यानवाह्यो ऽपि सकलापो ऽयमंहिपः । इत्थं चमकतास्तत्र ते ऽद्राक्षुश्चाषपक्षिणम् ॥३६॥ शाखानिषणः स खगो व्याददौ वदनं मुहुः । कवलोभवितं तत्र निपेतः कौटिकाः स्वयम् ॥३७॥ ते ऽचिन्तयनिहोद्देशे पक्षिणो ऽस्य यथा मुखे । कौटिकाः खयमागत्य निपतन्ति निरन्तरम् ॥३८॥ तथास्मिन्नुत्तमे स्थाने नगरे ऽपि निवेशिते । राज्ञः पुण्यात्मनो ऽमुख्य स्वयमेष्यन्ति सम्पदः ॥३६॥ दति निर्णय तत्स्थान नगराहें महीपतेः । श्राख्यान्ति स्म विवृण्वन्तो निमित्तं चाषलक्षणम् ॥४॥ जरनैमित्तिकश्चैको जगाद वदतां वरः । पाटलेयं न सामान्या ज्ञानिना कथिता पुरा ॥४१॥
तथाहि म्तो नग? द्वे मयुरे दक्षिणोत्तरे । ममानमौन्दर्यगुणे स्वसारौ युग्मजे इव ॥४२॥ प्रभुदुदग्मथुरायां देवदत्तो वणिक्सुतः । दक्षिणस्यां मथुरायां दिग्यात्रार्थमियाय सः ॥४३॥