________________
१५४
परिशिष्यपर्वणि पञ्चमः सर्गः।
तव शय्यम्भवो नाम पिता यज्ञरतो भवन् । प्रतार्य धर्तश्रमणैः पर्यव्राज्यत कैरपि ॥६६॥ पितुः शय्यम्भवस्यर्षेर्दर्शनायोत्सुकः स तु । निरियाय ग्रहाहालो वञ्चयित्वा स्वमातरम ॥६॥ तदा शय्यम्भवाचार्यश्चम्पायां विहरन्नभूत् । बालो ऽपि तत्रैव यथावाकृष्टः पुण्यराशिना ॥६॥ कायचिन्तादिना सूरिः पुरौपरिसरे ब्रजन् । ददर्श दूरादायान्तं तं बालं कमलेक्षणम् ॥६८ ॥ शय्यम्भवस्य त बाल पश्यतो ऽधेरिवोडपम् । स्नेहातिरेकादुल्लामस्तदाभूदधिकाधिकः ॥७० ॥ मुनिचन्द्रमस दूरात्तं दृक्षा बालको ऽपि हि । विकसददनः सो ऽत्सद्यः कुमुदकोषवत् ॥७॥ श्राचार्यो ऽपि हि तं बाल पप्रच्छातुच्छहर्षभाक् । को ऽसि त्वं कुत श्रायासीः पुचः पौत्रो ऽसि कस्य वा ॥७२॥ मो ऽर्भको ऽभिदधे राजग्टहादत्राहमागतः । सूनुः शय्यम्भवस्यास्मि वत्सगोत्रदिजन्मनः ॥७३॥ मम गर्भस्थितस्थापि प्रज्यामाददे पिता । तं गवेषयितुमह बंभ्रमौमि पुरात्पुरम् ॥७॥ भय्यम्भवं मे पितरं जानते यदि तन्मभ । पूज्यपादाः प्रसौदन्तु क सो ऽस्तौति वदन्तु च ॥७५॥ पितरं यदि पश्यामि तदा तत्यादसन्निधौ । परिवजाम्यहमपि या गतिस्तस्य सैव मे ॥६॥