________________
१०६
परिशिपर्वणि चतुर्थः सर्गः।
मुष्टियाहो मध्यदेशः सक्नौ चालानमन्निभे ॥४२॥ एणौजवोपमे जो करांहि कमलोपमम् । रूपसम्पदमेतस्य कियदा वनु मादृशः ॥४३॥
॥ चतुर्भिः कलापकम् ॥ महाभागस्य सौभाग्यमप्यस्य न गिरां पथि। यदेनं बन्धुमिव मे पश्यतः प्रौयते मनः ॥ ४ ॥ महातेजाश्च कोऽप्येष तथा तस्य तेजमा । 'न सम्यक् पार्यते द्रष्टुं रूपमप्यस्ति यादृशम् ॥४५॥ अध्यं चाभिगम्यं च तेजो ऽमुख्य महामुनेः । किमहरकरशीतांश्वोरेकबाकृष्य पिण्डितम् ॥४६॥ कियान्वा कथ्यते तेजोराशिरस्य तपोनिधेः । यत्पादनखरगौनामपि दासौनिमा तडित् ॥ ४ ॥ जम्बूप्राम्भववृत्तान्तमथाख्यगणमृद्वरः । श्रेणिकाय यथाचख्यौ पुरा श्रीज्ञातनन्दनः ॥४८॥ आख्याय चावोचदिद प्राग्जन्मतपमा नृप । रूपसौभाग्यतेजांसीदृशान्यस्य महात्मनः ॥४८॥ अयं चरमदेहश्च चरमश्चैव केवलौ। भवे ऽस्मिन्सेत्स्थतीत्याख्यात्स एव परमेश्वरः ॥५०॥ खामिना चेदमाख्यातं जम्वनाम्नि शिवं गते । न मनापर्ययो भावौ न चापि परमावधिः ॥५१॥ नाहारकवपुर्लब्धिर्जिनकल्पस्तथा नहि। पुलाकलब्धिों नो वा क्षपकणिरोहणम् ॥५२॥