________________
१६ ललिताङ्गकथा।
१३५
को ऽसाविति ज्ञापय मां ज्ञापयित्वा तथा कुरु । यथा हि संगमय्यामु निर्वापयसि मे वपुः ॥२२६॥ गत्वा ज्ञात्वा च सा चेटौ पुनरागत्य सत्वरम् । राज्य व्यज्ञपयद्धैर्यनाटकैकमहानटौ ॥२३ ० ॥ वास्तव्यः पत्तने ऽत्रैव ललिताङ्गो ऽयमाख्यया । समुद्रप्रियमन्जस्य सार्थवाहस्य नन्दनः ॥ २ ३ १॥ मौभाग्यमन्मथचाय दामप्ततिकलानिधिः । कुलौनश्च युवा चेति स्थाने स्वामिनि ते मनः ॥२३२॥ अस्याकृत्यनुसारेण गुणानपि हि निश्चिनु । यत्राकृतिस्तत्र गुणा इति लोके ऽपि गौयते ॥२ ३ ३॥ नारौव्वेकासि गुणिनी त्वं यथैष तथा नृषु । तयोर्गुणिनोर्योग घटयामि समादिश ॥२ ३ ४॥ एवं कुर्विति राज्यचे तस्या हस्ते च तल्टाते । ने खं प्रेमाङ्कुराम्भोदपयःलोकाङ्कमार्पयत् ॥२३५॥ मद्यो दाम्यपि मा गत्वा दूतौकमकको विदा । जगाद ललिताङ्गाय ललितोपज्ञवाचिकम ॥२३६॥ प्रवर्त्य तद्रिरंसायां ललिताङ्गं चटूनिभिः । श्रर्पयामास त लेखं तस्य प्रौणयितुं मनः ॥२३॥ म सद्य उद्यत्पुस्तकः कदम्ब दूव पुष्पितः । तं प्रेमव्यञ्जक लेख वाचयामाम तद्यथा ॥२३८॥ यदा दृष्टो ऽसि सभग तदाद्यपि वराक्यहम् । पश्यामि वन्मयं सर्व योगेनानुग्टहाण माम् ॥२३६॥