________________
१३४
परिशिष्ठपर्वणि टतीयः सर्गः ।
बषस्कन्धं पृथूरखं पद्मोपमकरक्रमम् । ग्रीवाकरक्रमामुक्तजात्यकाञ्चनभूषणम् ॥९१८॥ कर्पूरपूर्णताम्बूलप्रवृद्धमुखसौरभम् । स्मरजैत्रपताकाभं तिलकालंकृतालिकम् ॥२२॥ अङ्गरागच्छलान्मूत लावण्यमिव बिभ्रतम् । धूपायितांशकामोदमेदुरीकृतवर्मकम् ॥ २२१॥ वपुःश्रिया श्रियो देव्या द्वितीयमिव नन्दनम् । पुमांस सा ददर्शकं युवानं थान्तमध्वनि ॥२२२॥
॥ पंचभिः कुलकम् ॥ तद्रपालोकनोन्मत्तलोचना सा सुलोचना । म्तम्भमातहतमना: शालभञ्जौनिभाभवत् ॥ २२३॥ दध्यौ च सैवमन्योन्यदोलताबन्धबन्धुरम् । यद्येष परिरन्येत स्त्रौजन्म सफलं तदा ॥२२॥ अहं मनोरमममु खयंदूतीत्वपूर्वकम् ।। बड्डीय गत्वाश भजे भवामि यदि पक्षिण ॥२२५॥ अचिन्तयच्च तत्यार्थस्थिता चतुरचेटिका । नूनं शून्यत्र रमते स्वामिन्या दृष्टिरुच्चकैः ॥२२६॥ ऊचे च खामिनि तव यून्यस्मिन्रमते मनः । न चित्रमच कस्येन्दु नन्दयति लोचने ॥२२॥ ललितोचे मनोज्ञासि माधु साधु मनौषिणि । जौवामि तद्यदि भजे मनोरमममुं नरम् ॥१२॥