________________
१६ मासाहसशकुनिकथा। १७ त्रिमुहत्कथा।
१२७
तथा कः पुमान्देशान्तरे दुर्भिक्षपौडितः । चचाल खजनं हित्वा सार्थन महता सह ॥१४ २॥ एकम्यां च महाटव्यां सार्थ आवासिते सति । पाहत बणकाष्ठादि स एको ऽपि विनिर्ययो ॥ ९४ ३ ॥ तदा च सुप्तव्याघ्रास्थात्पक्ष्येको वनगकरे । दन्तलमामिषखण्डान्यादायारोहदंडिपम् ॥१४४॥ मा माहसमिति मुद्धः स भणन्मांसखादकः । शकुनिस्तेन जगदे पुरुषेण सविस्मयम् ॥१४॥ रौषि मा साहसमिति व्याघ्रास्यान्मांसममि च । मुग्धस्त्वं दृश्यसे वाचो ऽनुरूपं कुरुषे न च ॥१४६॥ हित्वा साक्षाद्भवसुखं तददृष्टसुखेच्छया ।। तपश्चिकौटुंस्त्वमसि मामाहसखगोपमः ॥१४७॥
जम्बूर भिदधे स्मित्वा न मुह्यामि भवगिरा । नहि भ्रश्याम्यहं खार्थाजानानस्त्रिसुहत्कथाम् ॥१४॥
क्षितिप्रतिष्ठे नगरे जितवोर्महीपतेः । पुरोधाः सोमदत्तो ऽभूत्सर्वत्राप्यधिकारकत् ॥१४८॥ तस्य मित्रमधदेकं सहमित्रो ऽभिधानत. । सर्वत्र मिलितः पानखादनादिभिरैक्यवान् ॥१५॥ पर्वमित्रो ऽभिधानेन तस्याभूदपरः सुहत् । भागतेषूत्सवेष्वेव सन्मान्यो नान्यदा पुनः ॥१५॥ प्रणाममित्रनामाभूत्सुहत्तस्य हतीयकः । यथादर्शनमालापमात्रोपकनिभाजनम् ॥१५२॥