________________
परिशिलपर्वणि द्वितीयः सर्गः । विषमाद्रिप्रदेशाधिरूढं कृत्वा मतङ्गजम् । पातयः पतता तेन युवयोरस्तु निग्रहः ।।५८०॥ श्राधोरणस्तं करिणमधिरोप्याद्रिमूर्धनि । त्रिपद्या धारयामामोत्क्षिप्तकचरणं स्थिरम् ॥५८१॥ हाहाकुर्वचनो ऽप्यूचे पशोराज्ञाविधायिनः । मारणं करिरत्नस्य राजरत्न न युज्यते ॥५८२॥ अनाकर्णितक कृत्वा पातयेत्येव वादिनि । नृपे दिपं हस्तिपकः रड्यां द्वाभ्यामधारयत् ॥५८३॥ हाहा न वध्यो हस्तौति पुनले के प्रजल्पति । बष्णीको भन्नृपो मेण्टो ऽप्येकांहिस्थं गजं दधौ ॥५८४॥ मारणं हस्तिरत्नस्य लोको द्रष्टुमनौश्वरः । हाहाकुर्वन्महीनाथं जगादोदञ्चितैर्भुजैः ॥५८५॥ औपवाह्यो गमावन्यगजासह्यः सुशिक्षितः । चितिवल्लभ दुःप्रापो दक्षिणावर्तशङ्खवत् ॥५८६॥ प्रभुस्लमपराधीनो यदिच्छसि करोषि तत् । निरङ्कुशं स्यादयशस्वविवेकभवं तव ॥५८७॥ कार्याकार्य विचार्य हि हे खामिन्खामिना स्वयम् । खयं विचार्य तद्रक्ष हस्तिरनं प्रमोद नः ॥५८८॥ नृपो ऽप्यवोचदस्वेवं यूयं सर्वे ऽपि महिरा । इमं हस्तिपकं हस्तिरक्षणाय भणन्तु भोः ॥५८६॥ लोकाः प्रोचुः किमियतौं भूमिकां प्रापितं द्विपम् । आधोरणधुरौण त्वं निवर्तयितमौशिषे ॥५८ ०॥