________________
परिशिलपर्वणि द्वितीयः सर्गः। श्रामेत्युक्वार्धसंवीतसंव्यानः स भयाद्ययौ । पुंश्चल्यपि द्रुतं गत्वा पार्श्व पत्युरशेत मा ॥५१४॥ धृष्टत्वं नाटयन्ती मा धौमतीनां धुरंधरा । पतिं प्रबोधयामास गाढालिङ्गनपूर्वकम् ॥५१५॥ उवाच चार्यपुत्रह धर्मो मामतिबाधते । तदेह्यशोकवनिकामनिलालोलपल्लवाम् ॥५१६॥ उत्थाय देवदिन्नोऽपि स्त्रौप्रधानः स श्रार्जवात् । जगामाशोकवनिकां तया ग्रौवाविलमया ॥५१७॥ तत्रैव गत्वा माशेत पतिमालिज्य निर्भरम् । सजारा यत्र शयिता वारेण निरीक्षिता ॥५१८॥ तत्रापि तत्पतिनिद्रां प्रपेदे सरलाशयः । निद्रा ह्यचुद्रमनमा प्रायेण सुलभैव हि ॥५१८॥ नटोव गोपिताकारा मा धूर्ताथावदत्पतिम् । बत्कुले कोऽयमाचारो यो वनुमपि नेष्यते ॥५२.। बामालिङ्ग्य प्रसुप्ताया निरावरणवक्षसः । जग्राह तातो मे पादादस्मादाकृष्य नूपुरम् ॥ ५ २ १।। न युज्यते वधूः स्पष्टु पूज्यानामन्यदापि हि । किं पुनः पतिमहिता शयिता रतवेश्मनि ॥५२२॥ जगाद देवदिन्नो ऽपि प्रातः पितरमौदृशम् । सोपालम्भ भणिय्यामि पश्यन्यास्ते मनखिनि ॥५२३॥ सोचे ऽधुनैव तातं व सवादयितुमईसि । प्रातमिन्यपुंसा हि भयितां कथयिष्यति ॥५. २४॥