________________
परिशियपर्वणि द्वितीयः सर्गः ।
शल्लकौकर्णिकारादिवनभङ्गपराङ्मुखः । उच्चानिन्ने निम्नाच्चोच्छेऽवतारोत्तारकातरः ॥३८३॥ दन्तपातादल्पभोका क्षामकुचिर्बुभुक्षया। अस्थिभस्वामदृक्कायो वार्द्धके सो ऽभवट्विपः ॥३८४॥
॥ त्रिभिर्विशेषकम् ॥ कुञ्जरः मो ऽन्यदा शुष्कगिरिनद्यां समुत्तरन् । पर्यस्तपादो न्यपतत्कूटमेकं गिरेरिव ॥३८५॥ स जरत्कुचरस्तत्र नाभूदत्यातमीश्वरः । तथैवास्थात्पादपोपगमन पालयन्निव ॥३८६॥ म विपेदे तथास्थो ऽपि विपेदानस्य तस्य तु । अपानपललं जक्षुः श्वफेरुनकुन्तादयः ॥३८७॥ बभूव तन्महद्भूतापानरन्धकलेवरम् । सकन्दरगिरिप्राय श्वापदेरास्पदीकृतम् ॥३८८॥ अपानमत्रशालायां विकास्तस्यां दिजा दुव । विविएश्च निरौयुश्चानेकशी भोजनार्थिनः ॥३८९॥ एकश्च वायसो ऽत्यन्तमदतो मांसभोजनात् । अपानमध्य एवास्थादुत्पन्न व विकमिः ॥३६॥ करिकायस्य तस्यान्तः मारमासादयन्स तु । काष्ठस्येव घुणो मध्ये प्रविवेशाधिकाधिकम् ॥ ३८१॥ मशरीरः परपुरे प्रवेशं नाटयन्भृशम् । अपूर्वो योगविदभूदनायासः म वायसः ॥३८२ ॥ लतेव करिकायस्य मो ऽमन्त्रव्यग्रमामिषम् । पूर्वापरविभागाज्ञो बभूवात्यन्तमध्यगः ॥३६३॥