________________
प्रभवचौरागमः।
अथावस्खापनिकया विद्यया विन्ध्यराजभूः । जाग्रतं सकलं न्तोक जम्बूवर्जमसूषुपत् ॥ १७ ४ ॥ सा विद्या प्राभवत्तस्मै प्राज्यपुण्यजुषे नहि । प्रायः पुण्याधिकानां हि न शक्रोऽप्यस्लमापदे ॥१७॥ ततो निद्रायमाणानां सर्वेषामपि दस्युभिः । अलङ्कारादिसर्वस्वमाच्छेत्तुपचक्रमे ॥१०६ ॥ लुण्टाकेष्वपि लुण्टत्सु स च जम्वूर्महामनाः । न चुकोप न चुक्षोभ लौलया विदमभ्यधात् ॥ १७ ७॥ शयानमिह विश्वस्तं निमन्त्रितमिमं जनम् । भो भोः स्पृशत मा स्मैषां जाग्रदेषो ऽस्मि यामिकः ॥ १७८॥ महापुण्यप्रभावस्य तम्याथ वचसेदृशा । ते चौराः स्तब्धवपुषो ऽभूवन् लेप्यमया इव ॥ १ ७ ८ ॥ ददर्श धारिणौसूनुं प्रभवो ऽपि निमालयन् । पनौभिरन्चित ताभिः करेणभिरिव दिपम् ॥१८॥ कथयामास चात्मानं विन्ध्यराजसुतो ऽस्म्यहम् । महात्मन्प्रभवो नाम सख्येनानुग्रहाण माम् ॥ १८१॥ वयस्य देहि मे विद्या स्तम्भनौं मोक्षणीमपि । अवस्खापनिकातातो हाटिन्यौ ते ददाम्यहम् ॥१८॥ जम्बूझचे प्रभाते ऽहं प्रभवाष्टावपि प्रियाः । नवोढा अपि हि त्यक्ता प्रव्रजिष्यामि निर्ममः ॥१८३॥ इदानीमप्यहं भावयतीभूतो ऽम्मि तेन भोः । प्रभव प्राभवन्नेयमवस्खापनिका मथि ॥१८४॥