________________
४२
परिशिष्यर्वणि प्रथमः सर्गः।।
यथा वेमि तथा वत्स वत्सं भोजय मे शिवम् । वया चैव कृतवता किं किं नोपकृतं मम ॥४४६॥ मज्जौवपक्षिणं कायकुलायाइन्तमुत्सुकम् । प्रत्याशापाशबन्धेन नियन्त्रय महाशय ॥४५॥ दृढधर्मो ऽपि तामाजामुररी कृत्य भूपतेः । ययौ शिवकुमारस्यान्वर्ण बुद्धिजलार्णवः । ४ ५१॥ कृत्वा नैधिकौं तस्य मदनान्तः प्रविश्य च । कमज्ञः प्रतिचक्राम स ऐर्यापथिकौं सुधौः ॥ ४ ५२॥ वन्दनं द्वादशावतं दत्त्वा भूमि प्रमाय॑ च । निषमाद वदनचरनुजानीहि मामिति ॥ ४ ५३॥ शिवो ऽवददहो इभ्य साधूनामुपसागरम् । विनयो ऽयं मया दृष्टः स कथं मयि युज्यते ॥४५४॥ दुभ्यपुचो ऽभ्यधात्सम्यग्दृष्टौनां यत्र कुत्रचित् । समभावो हि योग्यः स्यात्सर्वस्य विनयस्य भोः ॥ ४ ५५॥ यस्य कम्यापि हि खान्तं समभावाधिवासितम् । स वन्दनाही भवति दोषाशङ्कापि नेह भोः ॥ ४ ५ ६॥ कुमार किं तु पृच्छामि प्रष्टुमेवाहमागमम् । रसज्वरातुरेणेव किं त्वयात्याजि भोजनम् ॥ ४ ५ ॥ शिवो ऽवदद्विसृजतो व्रताय पितरौ न माम् । ततो भावयतौभूय स्थितो ऽस्मि विरतो हात् ॥४५८॥ यथा यु द्विज्य पितरौ विहाय ममतां मयि । व्रतार्थमादिशतो मामतः कुर्वे न भोजनम् ॥४५८॥