________________
जम्बूखामिपूर्वभवः।
कौदृशो ऽस्ति स मे भ्राना मिलिष्यति कथं पुनः । इत्यभूद्रणरणको राज्ञो मनसि दुर्धरः ॥ १३ ॥ अथादिशचित्रकरांस्तत्र यात तपोवने । यच्छ्रौमत्तातपादानां पादपरलंकृतम् ॥ १३१॥ पिटपादाजहमस्य मदौयस्यानुजन्मनः । वने निवसतो रूपमालिख्यानयत द्रुतम् ॥ १३२॥ युग्मम् ॥ प्रमाणमादेश इति प्रोच्य चित्रकरा अपि । ययुस्तत्र वने पुण्डौकते वल्कलचौरिणा ॥ ९३३॥ ते विश्वकर्मणो मृर्त्यन्तराणीवातिकौशलात् । तमालिखन्यथावस्थमादर्शप्रतिविम्ववत् ॥ १३४॥ श्रानीय दर्शयामासू रूपं वल्कलचौरिणः । ते चित्रकारिणो राज्ञः सुधावर्तिनिभं दृशोः ॥ १३ ५ ॥ दध्यौ नृपतिराकृत्या मत्यितनॆष हौयते । श्रात्मा वै जायते पुत्र: श्रुतिरेषा हि नान्यथा ॥ १३६॥ दिष्ट्या मोदर दृष्टो ऽसौत्यभिधायामकृन्नुपः । त मस्खजे मूर्ध्नि जनौ न चाङ्कादुदतारयत् ॥१३॥ वल्कलाच्छादनधर दृष्ट्वा वल्कलचौरिणम् । उदश्रु गभूद्राजा सनिईर वाचलः ॥१३८॥ ऊचे च प्रवयास्तातो युक्रमाचरत व्रतम् । मद्भातस्त्वस्य बालस्य वनवामो ऽपि नाईति ॥१३६॥ अहं राज्यसखहूदे मनः क्रीडामि हंसवत् । पुलिन्द दूव मे भ्राता वनवृत्त्या नु जीवति ॥१४॥