________________
परिशिष्ठपर्वणि प्रथमः सर्गः ।
नृपो भूयो ऽपि पप्रच्छ समये ऽस्मिन्महामुनिः । स कालं यदि कुर्वोत कां लभेत ततो गतिम् ॥१५॥ प्रभुः प्रोवाच हे राजन्स राजर्षिर्महातपाः । सर्वार्थसिद्धिगमनयोग्यः सम्प्रति वर्तते ॥७६॥ राजा जगाद भगवकिमियं व्याकृतिर्दिधा । समाख्याहि ममाज्ञस्य सार्वज्ञौ वाक्कुतो ऽन्यथा ॥७७॥ खाम्याचख्यौ यदा राजनराजर्षिर्वन्दितस्वया । रौद्रध्यानौ तदा सोऽभूच्छुक्लध्यानौ तु सम्प्रति ॥७८॥ स तदा नरकाही मुद्रौद्रध्यानपरायणः । सर्वार्थसिद्धियोग्यस्तु शुक्लध्यानपरो ऽधुना ॥८॥ ज्ञानालोकार्कमहन्तं पप्रच्छ श्रेणिकः पुनः । रौद्रध्यानौ कथमभूखुल्लथ्यानी कथं च सः ॥८॥ खाम्यप्युवाच राजस्वदग्रमेनिकवार्तया । शुश्रावाभिभवं सूनोमन्त्रिभ्यः खेभ्य एव सः ॥८१॥ स्पष्टः सुतममत्वेन प्रसन्नो विस्मृतवतः । मनमा योद्धमारेभे तैः सम क्रूरमन्त्रिभिः ॥८॥ प्रत्यकैरिव तैः साधं युध्यमानो ऽधिकाधिकम् । निष्ठितास्त्रः प्रसन्नो ऽभूदप्रसन्नमनाः क्रुधा ॥८३॥ स संनद्धं खमज्ञासौदिति चाचिन्तयत्क्रुधा । शिरस्त्रेणापि हन्न्येताम्मर्व शस्त्रं हि दोभताम् ॥८४॥ ततश्च शिरसि न्यास्यचिरस्कादित्सया करम् । तं लुञ्चितं स्पृशन्नात्तवतमात्मानमस्मरत् ॥५॥