________________
सस्कृत स्तोत्रादि सग्रह
३७७
(६) श्रीपार्श्वस्तोत्रं
(द्विहसं शालिनी छंद ) तवेश नामतस्त्वरा दरा भवन्ति गत्वराः,
प्रसृत्वरा रवेकरास्ततो यथा तमो भराः ॥१॥ अधोत्कराश्च नश्वरा धरेश्वराद्धि तस्कराः,
स्थिराः स्युरिन्दराभराः स्वमन्दिरान्न हीत्वराः ॥२॥ प्रभोः स्तवेषु तत्परा नरा जगत्सु जित्वराः,
तकेपु तत्परा दरा दरातयोऽपि किंकराः ॥३।। विधीयता जिनेश्वराऽऽशु पार्श्वहक्कृपापराः, प्ररायतां तरा व्वरा ममापि धर्मशीलराः ॥४॥
पञ्चतीर्थ्याः पंचजिन स्तोत्रम्
(प्रमाणिकाछदः)
योऽ चीचलदुश्च्यवनोरसि स्थितः
क्रमाङ्गुलीतः किल कर्णिकाचलं । स्वनाम चचुश्च चरिक्रियादयं,
स श्रीमहावीरजिनो महोदयम् ।। १ ।। अर्कः शुभोदर्कमतर्कितश्रिय,