________________
चतुर्विंशतिजिनस्तवनम्
(इन्द्रवज्राछन्दः) स्वस्तिश्रिये श्री ऋपभादि देवं, निर्दभदेवं जिनदेवदेवं, चारुप्रकाशं किल मारुदेवं, स्तौमीह सम्पत्तिलतैकदेव ॥१॥
(तोटकछन्दः) अमरासुर पुस्पशुपक्षिकृत-मदवारनिवारक ईश जितः, भवता मदनोऽपि मदौघयुतःप्रवदन्तिबुधा अजितं हि ततः ॥२॥
(वशस्थ) लसद्यशः पूरितसदिशं भवंत एतमर्चन्तु जनाश्च शंभवं । जिनं सदिक्ष्वाकु कुलाब्जसंभवं, स्फुरत्तपोधाम वितीर्णसभव ।।
(द्रुतविलम्बित) जिनमहं प्रणमाम्यभिनन्दनं,
सुभगसंवरभूपतिनन्दनम् । सकलसद्गुणपादपनन्दनं,
जिनवरं जनलोचननन्दनम् ।।४।।
(तोटक) त्रिजगत्पतिरेषजिनः सुमति
वितनोतु मतिं किल मे सुमतिः। शुभबोधपयोधिरनेकनुतिः,
क्रमणधु तिरंजितदेवपतिः ॥१॥