________________
३४४
धर्सवर्द्धन ग्रन्थावली
स्तनन्धयस्य भगवतो रूपस्वरूपमाह
रम्येन्द्रनीलरुचि देषभृतो जनन्याः
पावं श्रितस्य धयतश्च पयोधर ते । रूपं रराज नवकाञ्चनरुक तमोन्न
विम्वं रवेरिव पयोधरपार्श्ववर्ति ॥२८॥ प्रभोर्जन्म
इक्ष्वाकुनामनि कुले विमले विशाले
सदनराजिनि विराजत उद्भवस्ते । दोपापहारकरणः प्रकटप्रकाश
स्तुङ्गोदयाद्रि शिरसीव सहस्ररश्मेः ॥२६॥ नाथस्य जन्माभिषेकःस्नानोदकैर्जिन (जनि) महे सुरराजिमुक्त
र्गाने पतभिरपि नूनमनेजमानम् । दृष्ट्वा भवन्तममराः प्रशशंसुरीश
___ मुच्चेस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥ वप्रत्यविचार:
ये त्रिप्रदक्षिणतया प्रभजन्ति वीर
ते स्युनरा अहमिवाद्भुतकान्तिभाजः । वप्रत्रयं वददिति प्रविभाति तेऽत्र
प्रल्यापयन त्रिजगतः परमेश्वरत्वम् ॥३॥