________________
३४२
धर्मवद्धन ग्रन्थावली
भगवञ्चरणदर्शने फलाधिक्यमाह
याहक सुखं भवति ते चरणेऽत्र दृष्टे
ताहक परभुवदनेऽपि न देह भाजाम् । प्राप्ते यथा सुरमणौ भवति प्रमोदो
नैव तु काचशकले किरणाकुलेऽपि ॥२०॥ भक्तो भगवत्सेवा प्रार्थयन्नाह
एवं प्रसीद जिन! येन सदा भवेऽत्र
त्वच्छासनं लगति में सुमनोहरं च। त्वत्सेवको भवति यः स जनो मदीयं
कश्चन मनो हरति नाथ भवान्तरेऽपि ॥२||
जिनस्य भामण्डलम
भामण्डलं जिन | चतुर्मुखदिक्चतुष्के
तुल्यं चकासदवलोक्य सभा व्यमृक्षत् । सूयं समा अपि दिशो जनयन्ति किंवा
प्राच्येव दिग् जनयति स्फुरदशुजालम् ॥ २२ ।। लोकैर्यः शिवः शिव इति ध्यायते स भगवानेवेत्याह
शम्भुगिरीश इह दिग्वसनः स्वयम्भू
__ मृत्युञ्जयस्त्वमसि नाथ महादिदेव । तेनाम्बिका निजकलत्रमकारि तन् त्वन्नान्यः शिवः शिवपदस्य मुनीन्द्र | पन्थाः ॥ २३ ॥