________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ६५ -
संस्कृतच्छाया स सर्वदर्शी अमिभूय ज्ञानी, निरामगन्धो धृतिमान स्थितात्मा। अनुत्तरः सर्वजगति विद्वान्, ग्रन्थादतीतोऽभयोऽनायुः ॥५॥
सं० टीका-स ज्ञातूपुत्रमहावीरो भगवान् सर्वदर्शी समासीत्, किं कृत्वा, अमिभूय-यावद्द्वाविंशतिपरिषहान् तिरस्कृत्य पराजय कृत्वेति । पुनः केवलाख्यं ज्ञानमस्यास्तीति सः । "अत इनिठनौ ।" परतीर्थाधिपांधिकत्वमावेदितमित्यनेन ॥ अथ ज्ञानक्रियाभ्यां मोक्ष इति तस्य भगवतो ज्ञान प्रदर्श्य क्रियां दर्शयितुमाह ॥ निर्गतोऽपगत आमो विशोधिकोटिरूपो गन्धो यस्मात् सोऽस्ति निरामगन्धो-मूलोत्तरगुणसमन्वितां चरित्रक्रियां कृतवान् इति । धृतिमान् स्थैर्यसम्पन्नो निश्चलतया चरित्राराधकः । स्थितात्मा-निर्मलात्मा शुक्लध्यानीति, यावदथवा स्थित्यात्मा मर्यादान्वितात्मा, यथा “संस्थातुं मर्यादा धारणा स्थितिरित्यमरः ।" अशेषकर्मविगमात्स्थितो व्यवस्थित आत्मा यस्य स स्थितात्मा । परिणामद्वारेण विशेषणं ज्ञानक्रिययोरेतच्चेति भावः । अनुत्तर-उत्कृष्टः श्रेष्ठो नास्मादुत्तरं प्रधानं सर्वस्मिन्नपि जगति विद्यते सोऽनुत्तरः। "अनुत्तर एषां विपर्यये श्रेष्ठ इत्यमरः" । विद्वान् सर्वहेयोपादेयज्ञेयपदार्थवेत्ता, सकलद्रव्याणां करतलामलकवत्प्रत्यक्षदशीति भावः । “विद्वान् विपश्चिद्दोषज्ञः सन्सुघीः कोविदो बुधः, धीरो मनीषी शः प्राज्ञ, इत्यमरः" । ग्रन्थादतीतो ऽन्तर्बाह्यपरिग्रहग्रंथादतीतो रहितः, अथवा कर्मरूपाइन्थादतिक्रान्तो रहितो निर्ग्रन्थ इत्यर्थः । प्रवृत्तिभावेऽथवा कर्मपर्वणोऽतीत इत्याशयः । "प्रन्थिनी पूर्वपरुपी इत्यमरः" । अमयः सप्त प्रकारकं भयं न विद्यते यस्यासावभयो मीतिरहितः । “दरस्त्रासो भीतिभॊः साध्वसं भयमित्यमरः"। अनायुः-नारकतिर्यनृसुरायुरहितत्वात् । दग्धकर्मवीजत्वेन पुनरु
वीर ५