________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३९७ भिरुचिं विदध्युः । लोकान्तरप्राप्तिनिमित्तभूतसज्ज्ञानकर्मादिकरा भवन्तु ॥ ७॥ अत्रान्तरे मानबलं त्यजेयुः, सत्साधुसेवा नितरां विशेषा । सत्वात्मिकां वृत्तिमनूपसृत्य, मनश्च खाध्यायबले नियुज्य ॥८॥ खजीवनेनाद्यसमाजसेवा, रश्मि गृहित्वा परिरक्षणीया । निश्चित्य चित्तेन समाजवृन्दे, साहाय्यदानं करणीयमाशु ॥ ९॥ अथाभ्याख्यानप्रहरणम्॥ सन्दृश्यते भिक्षुवरा ? मयाद्य, किश्चिद्विकारान्वितसाधुभावाः । तेषां च जाते परिवर्तनादिकं, कुत्सान्वितं तेन विचारणीयम् ॥१०॥ दुष्टखभावान् कथयन्ति चान्यान् , कुर्वन्ति खस्यैव प्रशसनं च । विद्वत्सु दोष परिभावयन्ति, गुणं पिधायाथ गुणं खकीयम् ॥११॥ प्रकाशयन्ते च स्वकीयदोष, पिधाय ते संयमिनः वरिष्ठाः। निन्दन्ति ते दुष्कृतिनोऽभिमानात्समाजभाजः प्रवदन्त्यसिद्धान् ॥ १२ ॥ यदापहर्तु वरिवर्ति शक्तिस्तदेतरस्थान् गुणदिव्यसंघान् । आच्छिद्य सिद्धप्रवरा मवेम, इति प्रजल्पन्ति विचारशून्याः ॥ १३ ॥ मदीयेऽत्र काये यदि शक्तिरुया, जगन्मात्रजातान् गुणानाविच्छिद्य । खकीये तनौ स्थापयित्वा वरिष्ठो, भवेयं तदा सर्वतो माननीयः ।। १४ । परन्त्वस्ति भव्यं न चेदृग् वलं वा, न विज्ञानशक्तिर्विधातुं कुतः स्यात् । परेषां च निन्दाभिधानं मुखेन, परं मन्यते शाकपत्रादिकल्पम् ॥ १५॥ अयेऽन्यत्र निन्दे ! न लब्ध पद ते; विहाय स्थलं साधुसंधे प्रवेशः। कृतस्ते न जाने सदा दूरतस्त्वां; त्यजेयुर्जना मानवन्तो मनस्तः ॥ १६॥ अये पापिनि त्वत्कृते धर्मनाशे, भवेन्निम्नपातश्च नो धारयत्वम् । अतस्तैर्मुखं नीलवर्ण च नाशः, समाजाबहिस्त्वं गता चेद्वरेण्यम् ॥ १७ ॥ अयेऽनिष्टभावे ! पिशाचखभावे! मुनीनां समाजात्त्वमन्यत्र गच्छ । न भव्यं भवेत्तत्र संमे