________________
२८२ . . - वीरस्तुतिः । ...... परबलरणजयभट! जय परमपदसदन ! इति भक्तिरचित-विमलाक्षरमालया महावीर ! शुभभावदेवसूरिस्तुत ! केवलमक्षरं.देहि ॥९॥ ; त्वया जितान्यदेवर्द्धिर्वर्धमानप्रभावतः । त्वयि देवाधिदेवत्वं वर्द्धमान ! प्रभावतः ॥ १॥ जातलक्ष्मी तमो हाँ, वर्द्धमान ! प्रभो!! दयाम् । देहिमद्य' विधेहि , त्वं वर्द्धमानप्रभोदयाम् ॥ २॥ वीरो , जिनपतिः पातु, तन्वानः काञ्चनश्रियम् । विभ्रन्ननेषु निस्सीर्मा तन्वा नः काञ्चन श्रियम् ॥ ३॥ वरिवस्यति. यः श्रीमन्महावीरं महोदयम् ।। सोऽभुते जितसम्मोहमहावीरं महोदयम् ॥ ४॥ ..
श्रीवीरजिनस्तवनम् जय श्रीसर्वसिद्धार्थ ! श्रीवीर ज्ञातनन्दन ! सुमेरुधीर ! गम्भीर! महावीर ! जिनेश्वरः । ॥ १ ॥ योऽप्रमेयप्रमाणोऽपि, सप्तहस्तप्रमोपित, पूर्णेन्दुवर्ण्यवर्णोऽपि वर्णपर्णसवर्णकः। ॥ २ ॥ सदृशं कौशिके 'शके सर्प च क्रमसंस्पृशिः। पीयूषवृष्टिसृष्ट्या यं, दृष्ट्या - दिष्ट्या. विदुर्बुधाः ॥ ३ ॥ विष्टंपत्रितयोत्संगरंगदुत्तुगकीर्तिना, सनाथं येन नाथेन, विश्व विश्वम्भरातलम् ॥ ४ ॥ यस्मै चक्रे नमः सेवाहेवाकोत्सुकमानसैः । वीराया गतवैराय, मामासुरेश्वरैः ॥ ५ ॥ यस्माहेषादयो दोषाः, क्षिप्रं क्षीणाः क्षमाखनेः । दोषा पूषमयूखेभ्य, इव हर्यक्षलक्षणात् ॥६॥-यदेहातिसन्दोहसन्देहितवपुर्दधौ, रविः खद्योतपोतद्युत्याडम्बर विडम्बनाम् ॥ ७॥ भविनां यत्र चित्तस्थे, स्यु(वृद्धिसिद्धयः। तं वर्धमानमानौमि, वर्धमानसुभावनः ॥ ८॥ इति यस्ते वास्तवं पठति वीर! जिनचन्द्र ! जातरोमाञ्चः । यात्यपवर्ग स द्रुतमखर्वगळरिवर्गजयी ॥९॥