________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता १२१ मोहेन वा जायते तदा यः साधुः आसन्नभव्यजीवस्तं परिणाम परित्यजति तस्यैव द्वितीयं व्रतं भवतीति । "व्यक्तिव्यक्तं सत्यमुच्चै पन् यः । वर्गस्त्रीणां भूरिमोगैकभाक् स्यात् ।। अस्मिन् पूज्यः सर्वदा सर्वसद्भिः, सत्यात्सत्यं चान्यदस्ति व्रतं किम् ॥" अलीकफलमुपदर्शयति यथा"मन्मनत्वं काहलत्वं, मूकत्वं मुखरोगिताम् । वीक्ष्यासत्यफलं कन्यालीकाद्यसत्यमुत्सृजेत् ॥" . "मूकाजडाश्च विकला, वाग्धीना वाम्जुगुप्सिताः।
पूतिगन्धमुखाश्चैव, जायन्तेऽनृतभाषिणः ॥" पुनश्च प्रतिषेधमाह- . .
"सर्वलोकविरुद्धं यद्यद्विश्वसितघातकम् ।
यद्विपक्षश्च पुण्यस्य, न वदेत्तदसूनृतम् ॥" पुनश्च"असत्यतो लघीयस्त्वमसत्याद्वचनीयता ।
अधोगतिरसत्याच्च, तदसत्यं परित्यजेत् ॥" .. "असत्यवचनं प्राज्ञः, प्रमादेनापि नो वदेत् ।
श्रेयांसि येन भज्यन्ते, वात्ययेव महाद्रुमाः॥" ॥ यदाहुमहर्षयः सय्यम्भवाः, दशबैकालिके । "अइअम्मि य कालम्मि, पचुप्पण्णमणागए, .. ", जमलु तु न जाणेज्जा, एवमेअं ति णो वए।" (अतीते च काले, प्रत्युत्पन्नमनागते, यमर्थ तु न जानीयात् , 'एवमेतत् इति नो वदेत् ।)