________________
९०
. . . . , वीरस्तुतिः। . . ..
मणिः ।" यश्चानुत्तरमत्यन्तमुत्तमं ध्यानवरं श्रेष्ठध्यानं च ध्यायति, उत्पन्नकेवलज्ञानो भगवान् मनोवाक्काययोगनिरोधकाले सूक्ष्म काययोग निरुन्धन् शुक्लध्यानस्य तृतीयं भेदं सूक्ष्मक्रियामप्रतिपाताख्यं तथा च चतुर्थ निरुद्धयोग शुक्लध्यानमेदं व्युपरतक्रियमनिवृत्ताख्यं च ध्यायत्यतस्तदेव दर्शयति, सुष्टु प्रशस्तं शुक्लवच्छुक्लं ध्यानं विशुद्धलेश्यं शुक्ललेश्य* तथाऽपंगतं गंडमपद्रव्यं दोषजनकद्रव्यं यस्य तदपगतगंडं, यदि - * लिम्पत्यात्मीकरोत्यात्मा, पुण्यपापे यया खयम् । सा लेश्येत्युच्यते सद्भिर्द्विविधा द्रव्यभावत. ॥ प्रवृत्तियौगिकी लेश्या, कषायोदयरजिता । भावतो द्रव्यतो देहच्छवि: घोढोभयी मता॥ कृष्णा नीलाऽथ कापोती, पीता पद्मा सिता स्मृता। लेश्या षड्मिः सदा तामिर्गृह्यते कर्म जन्ममि ॥ योगाविरतिमिथ्यात्वकषायजनितोऽङ्गिनाम् । संस्कारो भावलेश्यास्ति-कल्माषास्रवकारणम् । कापोती कथिता तीत्रो नीला तीव्रतरो जिनैः, कृष्णा तीव्रतमो लेश्या, परिणाम शरीरिणाम् । पीता निवेदिता मन्द पद्मा मन्दतरो वुधै । शुक्ला मन्दतमस्खासा, वृद्धि षट्स्थानयायिनी ॥ निर्मलस्कन्धयो
छेत्तुं भावा शाखोपशाखयो । उम्चये पतितादाने भावलेश्या फलार्थिनाम् ॥ षट् षट् चतुर्पु विज्ञेयास्तिस्रस्तिस्रः शुभास्त्रिषु; शुक्ला गुणेघु षट्वेका लेश्या निलेश्यमन्तिमम् ॥ रागद्वेषग्रहा विष्टो, दुर्ग्रहो दुष्टमानस । क्रोधमानादिमिस्तीत्रैर्ग्रस्तोऽनन्तानुवन्धिभिः ॥ निर्दयो निरनुक्रोगो, मद्यमासादिलम्पट । सर्वथा कदनासक्तः कृष्णलेश्यान्वितो जनः । कोपी मानी मायी लोमी, रागी द्वेपी मोही शोकी, हिंस्र क्रूरश्चण्डश्चोरो, मूर्ख. स्तब्ध स्पर्धाकारी । निद्रालु कामुको मन्द , कृत्या. कृत्याविचारक ।महारम्भो महामूझे नीललेश्यो निगद्यते ॥ शोकभीर्मत्सरासूयापरनिन्दापरायण , प्रशंसति सदात्मानं स्तूयमान प्रहृष्यति। वृद्धिहानी न जानाति, न मूढः स्वपरान्तरम् , अहंकारग्रहग्रस्त , समस्ता कुरुते क्रियाम् । श्लाधितो नितरां दत्ते, रणे मर्तुमपीहते । परकीययशोध्वंसी, युक्त कापोतलेश्यया ॥ समदृष्टिरविद्वेषो, हिताहितविवेचक , वदान्य सदयो दक्ष , पीतलेश्यो महामना । शुचिर्दानरतो भद्रो, विनीतात्मा प्रियंवद , साधुपूजोद्यत साधु पालेश्यो नयक्रिय । निर्णिदानोऽनहंकार , पक्षपातोज्झितोऽशठः, रागद्वेषपराचीन , शुक्ललेश्यः स्थिराशयः । चेजः पद्मा तथा शुक्ला,लेझ्यास्तिन, प्रशस्तिका ।सवेगमुत्तमं प्राप्त क्रमेण प्रतिपद्यते॥