________________
द्वितीयविशिका
श्रेयसार्पणकल्पितकल्पककल्पपादपातिगगरिमप्रभाव प्रभुः । अतस्तनिर्णयाय असदाग्रहविलुप्तविवेकलोचनयुगलतया विपरीतपदार्थश्रद्धानसूदितामलसम्यक्त्वरत्नानां मिथ्यादृशामसदुपदेगवितरणानेकमुग्धप्राणिप्रमोहनजाललुब्धानेकभव्यभव्यजीवाना च शिक्षायै याकिनीमहत्तरावदनमलयनि.सृतासाधारणचाकचिक्यचमत्कृतिमद्वचनावगमावाप्तानादिकालीनरूढघनमिथ्यात्वग्रन्थि भेदविकचितविवे कविलोचना. परस्पराविरुद्धवस्तुप्रकल्पनापादितासमविद्वज्जनमन - सन्तोषपोषकसदालोकचतुर्दशशतग्रन्थ ग्रथनावाप्तपरस्परविरुद्धपदा. थापादनपटुवहुलतमदु खप्रकरस्वरूपदर्शनापादितस्वरूपवोधकबुधजनान्त.करणपरितापनपटिष्ठसृष्टिप्रलयावस्थावचित्र्यविचित्रलोकचतुर्दगलोकविधानकल्पनाकल्पितब्रह्माद्यभिधानाभिधेयपरमेशितृशतगुणमहिमानस्तत्रभवन्तः श्रीहरिभद्रपूज्यपादा लोकस्य यथास्थितं स्वरूप दिदर्शयिपवो द्वितीयविशिकाया सिद्ध लोकस्वरूप तावदाहुस्तद्विषयिणी विप्रतिपत्ति निराकृत्य तस्य प्रमाणसिद्धतां चाख्यायन्त आद्यगाथया
'पंचत्थिकायमइओ अणादिमं वट्टए इमो लोगो। न परमपुरिसाइको पमाणमित्थ च वयणं तु ॥१॥
मडगलाभिधेयादिनिर्देगस्तु नात्र विहितो, ग्रन्थकदेशत्वादस्या.। अथ लोक इति क. शब्दार्थः ? कतिविधञ्चासाविति चेदुच्यते-लोक्यते-आलोक्यते यथार्थवेदिभिरप्रतिहताशेपपदार्थाववोधवन्धुरकेवलवेदसा य. स लोक.। आलोक्यते च केवलविदा सर्वमेव रूप्यरूपिद्रव्यपर्यायादि सर्वद्रव्यपर्यायेषु केवलस्य तिवचनात् । अप्टविवरचासौ। यत आहुश्चरमश्रुतकेवलिपादन आवश्यकनियुक्तौ