________________
द्वितीयविशिका
ANNAal
इह हि शारीरिक मानसिकानेकदुःसहतरदु.खवातोपनिपातपीडितेनासुमता समानन्ताव्यायाधशाश्वतानन्दमयपरमपद-श्रवणजाततदवाप्तिसमु मुकभावेन च यतनीयमिष्ट तदपगमावाप्तिसिद्धये। पर तन्न यथार्थपदार्थप्रतीतिप्रतीतमन्तरा सम्यक्त्वमाप्यते केनापि । यतोऽलब्धसम्यक्त्वस्य ज्ञानमयनिश्चितस्वाधिकारम्य वाचनमिव दुश्चरतरविविधक्रियादिमय चारित्रमपि च भ्रष्टपयपरिज्ञानदुर्गदुर्गतराध्वविषमताव्याहतपरिश्रान्तपान्यपरिश्रमवत् न किमपि प्रापयितुमात्मनोऽम्भविष्णु अनिष्टतमदु खस्तोमविध्वसाय सुख - सन्दोहदिग्यपदप्रापणसामर्थ्याय कल्पनीय । नचैतत्त्रितयमन्तरेणावाप्यतेऽभीष्टं निश्चयज्ञप्तिक्रियारहितनामरपान्थवद् इष्टवस्तुनिचयनिरन्तरशालिनगरप्राप्तिः। तच्च दर्गनमोहमयोपशमजन्यसद्भाव प्रशमसवेगनिर्वेदानुकम्पास्तिक्यादिलक्षणमपि देवगरुधर्माणा यथार्थस्वरूपावगमे यथार्थश्रद्धानरूपम्।तत्र च तस्य श्रीमदकलडकितज्ञानभानुदुरिततिमिरततिप्रतताऽज्ञानान्वतमसतिरस्करणतरणिप्रभश्रीमद्देवतत्त्वनिर्णयेन गुरूणा तद्वचनानुष्ठानानुष्ठायितया धर्मस्य च तनिर्दिष्टतया स्यात् श्रद्धानं मुकर, यदि भवेदपास्तमिथ्यात्वदोषविकारप्रसरो जन्तुरसौ। तत्र च गाढतममिथ्यात्वहृत्पूरभक्षणक्षीणात्मविवेकास्तस्य देवत्वमुररीचक्रुर्योऽस्य चराचरस्य जगतो भवेत् विधाता। ऊचुश्चात एव-'कार्यायोजनधृत्यादे'रित्यादिना विश्वविधातृतयैव तस्य साव्यता। ततश्च यावन्न ज्ञात भवेद् विश्वविदितस्य सचराचरस्यास्य जगतः स्वरूप, न तावनिर्णीतो भवति अपास्तापजन्त्वनिप्टविधानेश्वररागद्वेपमोहदोपतमोजाल प्रतिसमयमवलोकिताशेपद्रव्यपर्यायपूर्णलोकालोकावलोकनाप्रतिहतभानुः समस्तपदार्थसार्थयथार्थस्वरूपप्रकागनप्रवीणगोप्रचार समग्रामरनरनायकशिरःशेखरमणिमृप्टाखिलागि कल्याणकरणप्रवणपादो नि: