________________
द्वितीयविशिका
कुत सस्कारलेगोऽपि, येन प्रेत्यापि तत्प्राप्ति. स्यात् । अत एव चानन्तद्रव्यलिङ्गव्यत्ययो भावलिङ्गप्राप्तिकारणमिति मिद्धान्तित सिद्धान्तनदीष्ण पञ्चवस्तुप्रकरणे, तन्न, यथाशक्तिव्रतग्रहणे साशझेनाविरततया स्थेयमित्यल प्रसङ्गेन । सामग्रयभावसङ्कल्पोऽपि नानुसन्धेय. सदभिसन्धिवरै यत । का तावत् सामग्री नाप्ताभवद्भि? येन स्थीयतेऽविरतेन । कि गुरुसयोगलक्षणा १, विधिलक्षणा २, प्रत्याख्येयद्रव्यप्राप्तिलक्षणा ३, परिणामलक्षणा ४, शक्तिलक्षणा ५, पालनलक्षणा ६, तथासहचारिलक्षणा ७, तथाविधज्ञानलक्षणा ८, शुद्धिलक्षणा ९, साम्यभावलक्षणा १०, गुणस्थानप्राप्तिलक्षणा ११, आत्मस्थैर्यलक्षणा १२ वेति द्वादशविकखैरनुशीलयन्तु चित्त चेतनावन्त । तत्र न तावन्नास्ति गुरुसयोगो, विहाय मिथ्यात्ववासना यदि सम्यनिभालयेयुभवन्तस्तानन्तरेण तीर्थस्यैवाननुवृत्ते । न च, चाच्य दर्शनज्ञानाभ्यामेवाधुना वर्तते तीर्थमिति, "न विणा तित्थ..नियठेहि" ति प्रवचनसाम्राज्यात्। अधुनातनाना साधूनामतिचारबाहुल्यमिति चेन्नावगत- तावद्भवभिनिर्ग्रन्थादि-निर्ग्रन्थस्वरूप, न च तीथस्वरूपमपि, कथमन्यथैवं सम्प्राधारयिष्यन्त यूयम् । तीर्थस्वरूपविचारणे तावदेव-ध्येयं, यदुत"वकुसकुसीला य जा तित्यति । निर्ग्रन्यादि-निर्ग्रन्थस्वरूप विचार्यते चेद् भवद्भिर्भविष्यत्येवाधुनातनमुनीनामपि साधुत्वमस्तीत्यवगति । यत आहु भाष्यकारा एव वकुशकुशीलस्वरूप तयो- प्रतिसेवनादि च बकुगस्य तावन्-'नम्रन्थ्य प्रति प्रस्थिता शरीरोपकरणविभूषानुवतिन ऋद्धियशस्कामा सातगौरवाश्रिताः, अविविक्तपरिवारा छेदशवलयुक्ता निर्ग्रन्था- बकुशा' इति । तथा प्रतिसेवनायामपि'बकुशो द्विविध -उपकरणवकुश शरीरबकुशश्च। तत्रोपकरणाभिष्वक्तचित्तो विविधविचित्रमहाधनोपकरणपरिग्रहयुक्तो .