________________
द्वितीयविगिका
१७१
मपि भवति मिथ्यात्वसयुक्त" इत्यादि । कृतमतिप्रस्तुतेन । प्रस्तुत प्रस्तूयते । इदमत्र प्रस्तुत-यन्मिथ्यात्वावाप्तौ मतिश्रुतयोविपर्ययवत् प्राक्प्रतिपन्नस्यावधेरपि विपर्ययतेति मतिश्रुतानन्तरमवधेरुपन्यास इति । तथा य एव मतिश्रुतयो' स्वामी, स एवावधेरपि, त्रयाणामपि सम्यक्त्वहेतुकत्वात् । न च मतिश्रुते अन्तरा भवति लाभोऽवधे । न च वाच्य क्रमेणैवायं गतार्थ इति । न तावन्नियमो:स्ति नादशो यत्पूर्वज्ञानलाभे एवोत्तरज्ञानलाभ इति, विनाप्यवधिना मनःपर्यायोपलम्भादेशात् केवलावाप्त्युपदेशाच्च । कथमिति चेच्छृणुत-गृहस्थलिङ्गे स्त्रीलिङ्गेऽन्य लिङ्गे चावाप्यते केवल, न तेषा मनःपर्यायज्ञानसम्भव, सयमादिनिवन्धनत्वात्तस्य । न चावधिज्ञानस्यापि नियमो, व्यपदिश्यते च अत एव ज्ञानद्वारे व्यजिते व्यजिते चैव-अव्याञ्जते द्वाभ्या ज्ञानाभ्या सिध्यति त्रिभिश्चतुभिरिति । व्यजिते द्वाभ्या मतिश्रुताभ्या, त्रिभिर्मतिश्रुतावधिभिर्मतिश्रुतमनःपर्यायैर्वा, चतुभिर्मतिश्रुतावधिमन पर्याय रिति । अल्पबहुत्वद्वारे च सर्वस्तोका मतिश्रुतज्ञानसिद्धाः, मतिश्रुतावधिमन पर्याय-ज्ञानसिद्धाः सङख्येयगुणा , मतिश्रुतावधिज्ञानसिद्धा सडख्येयगुणा इति स्पष्ट एवात्र विनाप्यवधि मन.पर्यायोपलम्भ केवलोपलम्भोऽपि च । पूर्वभावप्रज्ञापनीयनयापेक्षया चेदमिति नवागनीयम् । कथमकेवला सिद्धि ? केवल तु सर्वेषामेवाश्रुत्वा केवलिनोऽपेक्ष्य श्रुतानियम वाऽपेक्ष्य । मतिज्ञानेन सह कथ नेकज्ञानसिद्धा इति तु नैव द्वापरयितव्यम्, समताभावाद्यनागमे केवलित्वस्यैवाभावात् । अश्रुत्वाकेवलित्वं विशिष्टश्रुतलाभापेक्षयैव गुरुपादिनधिगतश्रुतत्वापेक्षया वेति यत्किञ्चिदेतत् । यथा च विनावधि मन पर्याय केवल, विना मन पर्यव वा केवल प्राप्नोति कश्चिन्न तथा विता मतिश्रुते लभतेऽवधि करतना