________________
द्वितीयविशिका
१६३
norm
~
~
~
तावदात्मापलापपापकर्दमलिप्तात्मका नास्तिकास्ते तावज्जीवमेव नाभ्युपयन्ति, कथ तदा तत्कर्तृता घटादे , तन्मते च भूतनिर्वत्तितो घटः । तथा साडख्यैरप्यकर्ता निर्गुणो भोक्ता इत्यभ्युपगमेन नैवाय जीवप्रयत्नजोऽभ्युपगम्येत । प्रत्यक्षापलापिनो वेदान्तिनस्तु घटोऽयमित्येव मृषोद्य, विहाय ब्रह्म अपरस्याभावादेव तन्मते । वौद्धानामपि मते नाय जीवकर्तक', यत. कैश्चित्तावन्नाङ्गीक्रियते ज्ञानव्यतिरिक्त. कोऽपि पदार्थोऽपरैरपि नाभिमतः कोऽपि पदार्थ , शून्यवादाऽङ्गीकारात् । क्षणिकवादे चेदन्त्वेन प्रत्यक्षक्षणोऽन्योऽन्यश्च व्यवहारक्षण इति प्रत्यक्ष एवासत्यता स्वाभिप्रायेणैव तद्ग्राहिणाम्। तथा नैयायिक-वैशेषिकयोरपि जगदीश्वरकृतियोजितद्वयणुकादिजन्योऽयम्, न तु स्ववृत्तिस्निग्धरूक्षत्वादिगुणयोजिततथाभावाऽऽपादितमृत्तिकाजन्य । न च परमाणुमयो न वाऽपरमाणुमय , आद्येऽदृश्यत्वापातात्, अन्त्ये च परमाण्वनित्यत्वाङ्गीकारात्, उभयाभ्युपगमे च स्वमतत्यागेन स्पप्टा स्याद्वादाभ्युपगमापत्ति , कथञ्चिद्वादस्य तथात्वात् । ततश्च न तो स्वाभ्युपगममनुश्रित्य वक्तु शक्नुयाता अय घट इति । प्रतिपादितरीत्याऽन्येषामप्यात्माभ्युपगमेनाऽसद्वादितोपपादनीया । यथा घटादिद्रव्याण्यपेक्ष्योदित तथैव गुणाद्यपेक्ष्यापि वाच्य, भेदाभेदैकान्तप्रवणत्वादन्येपा सर्वेषा मिथ्यामतानुसारिणामिति । यद्वा-सदसतोर्न विशेषस्तेपा, सर्वथा सत्त्वमसत्त्व वा तैरभिमतं स्याद्वादाभ्युपगमभीत्येव, तथाभ्युपगमे च घटस्य सत्त्वेऽपि स्वद्रव्यक्षेत्रकालभावापेक्षया परद्रव्यक्षेत्रकालभावापेक्षया यद्घटे असत्त्व तन्न तैरभिप्रेत, पदार्थस्य सदसद्रूपेण स्वीकारापत्ते । नियमश्चाय सर्ववादिसम्मत -यद्भावाभावयो' परस्परपरिहारेणावस्थानम् । यदि च नाङ्गीक्रियते परासत्त्व घटादौ, स्पष्टमेव परसत्त्व तत्रापतन्न निवारयितु शक्येत तै । तथा च घटस्य सत्त्वेऽपि पटादेरपि