________________
द्वितीयविशिका
भावश्च पूर्वमुपपादित एव । न च वाच्यं भविष्यति तर्हि शब्द. ग्रहोऽपि, तस्यापीन्द्रियगोचरत्वात् । तस्य तथात्वेऽपि द्रव्यत्वेन तस्य कथञ्चिद्विजातीयत्वात् । द्रव्यता चास्य तीव्र मन्दभेदात् अनुवायुश्रवः .णात् तीब्रशब्दजन्यवाधिर्योपलम्भात् परिमितक्षेत्रश्रवणविपयत्वात गत्यादेरन्योऽन्याभिभावकत्वाच्चावसेया । गुणत्वे च कथ तस्य श्रोत. श्रवणदेशप्राप्ति.? वीचितरनकदम्बकगोलकन्यायनान्याऽन्यशब्दोत्पत्तिरपि न सडगच्छते एव, दृष्टान्तस्य द्रव्यत्वादिना वैपम्यात् । न च गुणरूप. स, उत्पन्न सन्नमवेतत्वाद् द्रव्ये गच्छति पुरतो येनोत्पादयेन्नूत्नान् गव्दान् दशसु दिक्षु । यद्यप्यु पादयेत् स स्वाधिकरणे पर नान्यत्र तस्य तदुत्पादनसामर्थ्य । नहि सनिकृष्टमपि गुणानपंयति द्रव्यं, नवा घटैकदेशस्थितो रक्ततादिगुणोऽन्यत्रावयवे याति, तन्न गुणरूपताया तस्य स्याच्छवणं । न च कथमेकत्रावयवे उत्पन्न सुख समग्रेऽप्यात्मनीति । स्वभावत्वादेकोपयोगस्वाभाव्याच्च तस्येत्यलं प्रसक्तेन । रूप मूर्त्तत्वमस्यास्तीत्यभ्रादित्वादप्रत्यये रूप-रूपवद् द्रव्यमित्यर्थः । तथाविधाश्च पुद्गला एव 'रूपिण. पुद्गला' इति नियमात् । नियमश्चात्रोभयथैव-पुद्गला एव रूपिणो, रूपिण एव पुद्गलाश्चेति । तथाऽरूपममूर्तत्वमस्यास्तीत्यरूपि, अरूपशब्दस्यामूर्तत्वे रूढत्वात् । अन्यथा स्यादेव बहुव्रीहिणा न रूप यस्येत्यरूपमितिलक्ष गेन मत्वर्थीयानर्थक्य स्याद्वा 'गौरखरवदरण्य'मिति सत्यपि वहुनीहिणार्थप्रतिपादने मत्वर्थीयः । अरूपीणि च धर्माधर्माकाशजीवलक्षणानि अस्तिकायद्रव्याणि सकालानि तान्येव वा द्रव्याणि 'रूपिणपुद्गला' इत्यादावुभयथावधारणादेवेति लभ्यते । आहुश्च-'नित्यावस्थितान्यरूपीणीति परमर्षय. । तृतीयं प्रकारमप्याहु -'सप्पए. समप्पएसे'त्ति । तत्र दिश्यते-निरूप्यतेऽवयवी येन स देशो 'व्यञ्जना'. दिति घन्, विवक्षितवस्तुनो विवक्षितो भाग., प्रकृष्टो-द्विधा कर्त