________________
व्याख्या-कन्दा:-भूमध्यगा वृक्षावयवास्ते चाशुषका एव ग्राह्याः, शुष्काणां तु निर्जीवत्वादनन्तकायिकत्वं न संभवति। तथा अङ्कराः-उद्गमना वस्थायां अव्यक्तदलाधवयवा घोषातकीकरीरवरुणवटनिम्बादितरूणामङ्कुराः सर्वेऽप्यनन्तकायिकाः । किश ( स ) लयानि उद्गच्छन्नूतनकोमलपत्राणि तान्यप्यनन्तकायिकानि प्रौढपत्रादग्विीजस्योच्छ्नावस्थालक्षणानि सर्वाणि, न तु कानिचिदेव । यतः-सब्बोऽवि किसलओ खलु उग्गममाणो अनंतओ भणिो । सो चेव विवडतो, होइ परित्तो अणंलो वा ॥ १ ॥ इति । पनकापञ्चवर्णा फुल्लिः। सेवालं प्रतातं । भूमिस्फोटानि ग्रीष्मवर्षाका भावीनि छत्राकृतीनि लोकप्रतीतानि वा। “अद्दयतिय ति" आईकत्रिकं आईक.शङ्गबेरः, आर्द्रहरिद्रा, कञ्चरकस्तिक्तद्रव्यविशेषः। गर्जराणि प्रतीतानि । तथा मुस्तादीनां चतुर्णा स्वरूपं द्वात्रिंशदनन्तकाय व्याख्यायां व्याकरिष्यते । तथा सर्व कोमलं फलं अनिबद्धास्थिकं तिन्दुकाम्रादीनां । "गूढसिराइं ति" गृहानि सिराणि अप्रकटसन्धीनि गजपर्णपत्राणी-वाविज्ञात संधीनि पत्राणि येषां तानि । बहुव्रीहाविवलोपे सिद्धिः। एतदुक्तलक्षणं, न तु द्वात्रिंशदनन्त कायिकेषु सङ्ख्यापूरणमिति । “शोहरि ति" रनुयादीनां चतसृणाौषधीनां छिन्नाहाणां च स्वरूपं द्वात्रिंशदनन्तकायिकेषु व्याख्यानयिष्यति । इह हि ग्रन्थकृता समग्रतया द्वात्रिंशदनन्तकाया नोक्ता सूचनालत्रमिति कृत्या, तथा प्युच्यन्ते तद्यथा-"सव्वा हु कंदजाई" इत्यादि गाथापञ्चकं मूत्रनो न लिख्यते विदितत्वाद. अर्थाद्वित्रियते-हु शब्दोऽवधारणे, सवैवकन्दजातिर नन्तकायिका । तथा मरण कन्दोर्शोऽनः, बत्रोऽपि कन्द विशेषः, आईकत्रिक पूर्व व्यावर्णितं ज्ञातव्यं, शतावरी विरालिके वल्लीभेदो, कुमारी मांसल प्रणालाकारपत्रा थोहरी स्नुहीतरुः, गडच्यापि वल्ली प्रतीतैव, लशुनः कन्दविशेषः "वंसकरेल्ल ति" कोमलानि नववंशावयवरूपाणि करेल्लकतया प्रतीवानि, गर्जरः प्रागुक्तो रक्तकन्दः, लवणको वनस्पतिविशेषः येन दग्धेन सनिका स्यात्, लोढ, पद्मिनीकन्दः, गिरिकर्णिका वल्लीविशेषः तस्याः किसलयानि पत्राण्यप्यनन्तकायिकानि, खीरिंशुक-थेगावपि कन्दौ, सुस्ता वराह