SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ १०६ प्रबोधचन्द्रोदये सव्याख्ये कन्येयं सहसा समं परिकरैर्मोहं असन्ती भजत्यन्तर्धानमुपैति चैष पुरुषः श्रीमान् प्रबोधोदयः ॥२८॥ (ततः प्रविशति प्रबोधचन्द्रः ।) प्रबोधचन्द्रःकिं व्याप्तं किमपोहितं किमुदितं किं वा समुत्सारितं स्यूतं किं नु विलायितं नु किमिदं किश्चिन्न वा किञ्चन उपनिषत्प्रसादान्मनःसकाशोन्मनःप्रसादादुत्पद्यमानबोधेद्धा बुद्धिवृत्तिरिर कन्येत्युच्यते । सा सहसैव स्वोत्पत्तिमात्रेण परिकरैः कार्यवगैः सह मो असन्ती विनाशयन्ती स्वनिमित्तभिदामपि सलिलविलोलितकतकरजोवर स्वयमेव ग्रसन्ती भजत्यन्तर्धानं विलयं वहतीत्यर्थः । पुनरपि किं कृत्वेति तदाह-निर्भिद्येति । प्रत्यग्र इत्यभिनव उच्यते। अभिनवस्फुटत् । उत्क दृढतरम् । इदं क्रियाविशेषणम् । झटितित्रुट्यदृढास्थि यथा भवति तथा मनसो वक्षःस्थलम् । मनःशब्देन हृदयमुच्यते । हृदयग्रन्थि निर्भिवेत्यर्थः पुनरपि कीदृशी सेत्याशङ्कायां विशिनष्टि-उद्दामेत्यादिना । उद्दामै रुत्कटैः स्वयंप्रकाशचैतन्यधुतिसन्दोहैः । दिश इत्युपलक्षणं, "ब्रह्मवेद सर्वम्" इत्येवमाकारेण अखण्डब्रह्म प्रकाशयन्तीत्यर्थः । एवं तावत् __ "तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः । अविद्या सह कार्येण नासीदस्ति भविष्यति ।।" इति न्यायाद् बोधेद्धा ब्रह्माकारोवृत्तिलक्षणा कन्या स्वविरोध्यज्ञान तत्कार्य च निरस्य स्वयमपि ब्रह्मभूयं प्राप्तेत्यभाणि ! अधुना तु बुद्धि वृत्तिफलकारूढचैतन्यलक्षणफलस्वरूपं दर्शयति- उपैति चैष पुरु इत्यादिना ॥ २८॥ ____ अथ फलप्रवृत्तिप्रकारमेवावेदयति-ततः प्रविशति प्रबोध चन्द्र इत्यादिना । अशेषानर्थनिरासकत्वाद् निरतिशयानन्दाविर्भावकत्वा चन्द्रवत् प्रबोधचन्द्रः ॥ १. 'शादु' क. ग. पाठ:. २. 'स्वोदयमा' क. पाठः. .. 'यं घटती' ग. 'यं म्यादधती' क. पाठ:. ४. .वं समन्ततःई ख. घ. पाठः. ५. 'क्यार्थस' । पाठ:. . 'धल' ख. घ. पाट:.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy