________________
तृतीयोऽशः। वश्याकर्षणमोहनप्रमथनप्रक्षोभणोच्चाटन
प्रायाःप्राकृतसिद्धयस्तु विदुषां योगान्तरायाः परम् ॥२२॥
क्षपणकः-अळे कापाळिअ! (विमृश्य) अहव आचाळिअळाअ! कुळाचाळिअ!।
भिक्षुः- (विहस्य) अयमनभ्यासातिशयपीतया मदिरया दूरमुन्मत्तीकृतस्तपस्वी । तत् क्रियतामस्य मदापनयनम् । ___ कापालिकः - एवं भवतु । (इति स्वमुखोच्छिष्टं ताम्बूलं क्षपणकाय ददाति ।)
क्षपणकः - (संज्ञां लब्ध्वा क्षणं स्वस्थीभूय) आचाळिअं एव्व एवं पुच्छिरसं । जादिसी तुह सुळाए आहळणसत्ती, किं तादिसी इत्थिआपुळिसेसु वि अस्थि । कापालिकः - किं विशेषेण पृच्छयते । पश्य, विद्याधरी वाथ सुराङ्गनां वा
नागाङ्गनां वाप्यथ यक्षकन्याम् ।
दन्तिकानयनम् । मोहनं मौढयापादनन् । प्रमथनं विनाशनम् । प्रक्षोभणं प्रविचालनम् । उच्चाटनमुत्साट्य परित्यागः । प्रायाः एवमाद्याः । प्राकृतसिद्धयः सांसारिकफला एता अयत्नसाध्या इत्यर्थः । अन्तरायाः प्रत्यूहाः । अस्मिन् दर्शने स्वरसचारानुसारेणैवाखिलपुरुषार्थसिद्धिरिति भावः ॥२२॥
क्षपणकः । अरे कापालिक ! अथवाचार्यराज! कुलाचार्य। तपस्वी वराकः ।
क्षपणकः । आचार्यमेवैतत् पृच्छामि । यादृशी तव सुराया आ. हरणशक्तिः, किं तादृशी स्त्रीपुरुषेष्वप्यस्ति ।
P2