________________
१००
प्रबोधचन्द्रोदये सव्याख्ये ___ कापालिकः -शृणुदृष्टं क्वापि सुखं विना न विषयैरानन्दबोधोज्झिता
जीवस्य स्थितिरेव मुक्तिरुपलावस्था कथं प्रार्थ्यते । पार्वत्याः प्रतिरूपया दयितया सानन्दमालिङ्गितो
मुक्तः क्रीडति चन्द्रचूडवपुरित्यूचे मृडानीपतिः ॥ १६ ॥ भिक्षुः-महाभाग! अश्रद्धेयमेतदवीतरागस्य मुक्तिरिति ।
क्षपणकः- अळे कावाळिअ! जइ ण ढुस्सासि, तदो भणामि सळीळी मुक्को अत्ति विळुद्धम् । प्रतिक्षिपन्नाह - दृष्टमिति । लोके दृष्टानुसारेण तीथिकानां तीर्थकल्पना कल्पते । लोके च तावद् विषयव्यतिरेकेणानन्दकलालवोऽपि सुषुप्त्यादौ नोपलब्धचरः । अतो निर्विषयमोक्षपक्ष उपेक्षणीयो विचक्षणैरिति भावः । उक्तं हि
"अपि बृन्दावने शून्ये सुगालत्वं स इच्छति ।
न तु निर्विषयं मोक्षं कदाचिदपि गौतम ! ॥" इति । नवगुणोच्छित्तिलक्षणा स्तिमितजलधिकल्पा जीवस्य स्थितिरेव मुक्तिरिति प्रामाकराणां गलगर्जनम् । तदनूद्य निराकरोति-आनन्देति । एवं प्रेधावत्प्रायं न भवतीत्यर्थः । त्वत्पशे पुनः कथं मुक्तो वर्तत इति चेत् , तत्राह-पार्वत्या इति । प्रतिरूपया सह(शया १श्या) दयितया स्निग्धया। एवमेव मुक्तिरित्यत्र प्रमाणमाह - इत्यूचे मृडानीपतिरिति । सकलसंमतसर्वज्ञोदितत्वात् सकलैंप्राणिसंवादाचास्य सौख्यस्य, अतः समीचीनतास्य पक्षस्येति भावः ॥१६॥
क्षपणकः । अरे कापालिक ! यदि न रुष्यसि, ततो भणामि शरीरी मुक्तश्चेति विरुद्धमिति ।
१. 'र्थिक' क. ख. पाठः. २. 'प्य', ३. 'सर्वशेश्वरोदि' ख. पाठ:. ४. 'लसं' ख. ग. पाठ:.