________________
प्रमेयकमलमार्तण्डे [६. नयपरि० गम्भीरं निखिलार्थगोचरमलं शिष्यप्रबोधप्रदम्,
यद्यक्तं पदमाद्वितीयमखिलं माणिक्यनन्दिप्रो। तन्याख्यातमदो यथावगमतः किञ्चिन्मया लेशतः,
स्थेयाच्छुद्धधियां मनोरतिगृहे चन्द्रार्कतारावधि ॥ १ ॥ ५ मोहध्वान्तविनाशनो निखिलतो विज्ञानशुद्धिप्रदः,
मेयानन्तनोविसर्पणपटुर्वस्तूक्तिभाभासुरः। शिष्याब्जप्रतिवोधनः समुदितो योऽद्रेः परीक्षामुखात्, जीयात्सोत्र निबन्ध एष सुचिरं मार्तण्डतुल्योऽमलः ॥२॥ गुरुः श्रीनन्दिमाणिक्यो नन्दिताशेषसज्जनः । नन्दतादुरितैकान्तरजाजनमताकः ॥ ३॥ श्रीपानन्दिसैद्धान्तशिष्योऽनेकगुणालयः । प्रभाचन्द्रश्चिरं जीयाद्रत्ननन्दिपदे रतः॥४॥ श्रीभोजदेवराज्ये श्रीमद्धारानिवासिना परापरपरमेष्ठिपदनणामार्जितामलपुण्य निराकृतनिखिलमलकलङ्केन श्रीमत्प्रभाचन्द्र१५पण्डितेन निखिलप्रमाणप्रमेयस्वरूपोद्योतपरीक्षामुखपदमिदं 'विवृतमिति ॥ (इति श्रीप्रभाचन्द्रविरचितः प्रमेयकमलमार्तण्डः समाप्तः)
॥ शुभं भूयात् ॥
---
१ अथेदानी माणिक्यनन्दिपदव्यावर्णनपूर्वकं तत्पदाशीर्वादपूर्वकं चात्मनः प्रारब्धनिर्वहणमौद्भत्यपरिहारं च सूचयन्नाह गम्भीरेत्यादि । २ अप्रमितम् । ३ मार्तण्ड इत्यस्योपपत्तिं दर्शयति । ४ खस्य । ५ माणिक्यनन्दी।